०५

अथ चतुर्थप्रश्ने पञ्चमोऽध्यायः

अथ पाकयज्ञानां प्रायश्चित्तिः १
तद्यथा द्रव्यहविर्मन्त्रकर्मादीनामतिपन्नस्कन्नभिन्नभग्ननष्टदुष्टविपरीतदग्धाशृत्यनिकृतानामनाम्नातेषु जुहुयात् मनो ज्योतिः अयाश्चाग्ने यदस्मिन् कर्मणि स्वस्ति न इन्द्रो वृद्धश्रवाः इति व्याहृतिभिश्च २
व्याहृतीनां प्रयोगे यथाकृतं यथावद्भवतीत्याचार्या ब्रुवते ३
तत्रोदाहरन्ति भूरित्यृचो भुव इति यजूंषि सुवरिति सामानि ४
प्रवृत्ते कर्मणि प्रधानादौ जुहुयादिति बोधायनः ५
प्रधानान्त इति शालिकिः ६
पुरस्तात्स्विष्टकृत इत्यौपमन्यवः ७

इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने पञ्चमोऽध्यायः