अथ चतुर्थप्रश्ने पञ्चमोऽध्यायः
अथ पाकयज्ञानां
प्रायश्चित्तिः १
तद्यथा
द्रव्यहविर्मन्त्रकर्मादीनामतिपन्नस्कन्नभिन्नभग्ननष्टदुष्टविपरीतदग्धाशृत्यनिकृतानामनाम्नातेषु
जुहुयात् मनो ज्योतिः अयाश्चाग्ने यदस्मिन् कर्मणि स्वस्ति न इन्द्रो
वृद्धश्रवाः इति व्याहृतिभिश्च २
व्याहृतीनां प्रयोगे यथाकृतं
यथावद्भवतीत्याचार्या ब्रुवते ३
तत्रोदाहरन्ति भूरित्यृचो भुव इति
यजूंषि सुवरिति सामानि ४
प्रवृत्ते कर्मणि प्रधानादौ जुहुयादिति
बोधायनः ५
प्रधानान्त इति शालिकिः ६
पुरस्तात्स्विष्टकृत
इत्यौपमन्यवः ७
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने पञ्चमोऽध्यायः