अथ चतुर्थप्रश्ने चतुर्थोऽध्यायः
अथाभ्याघातस्स्यादग्निश्चोद्वातस्स्यात्
सर्वं तत् अपहताः इति प्रोक्ष्य स्थण्डिलमुद्धृत्य तमेवाग्निमुपसमाधाय
सम्परिस्तीर्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति ये देवा यज्ञहनो
यज्ञमुषः इति तिसृभिरनुच्छन्दसम् १
स्विष्टकृत्प्रभृति
सिद्धमाधेनुवरप्रदानात् २
अथ यद्यक्षभेदस्स्यात्तमेवाग्निमुपसमाधाय
सम्परिस्तीर्याऽग्निमुखात्कृत्वा
प्रधानाहुतीर्जुहोति इह धृतिस्स्वाहेह विधृतिस्स्वाहेह
रन्तिस्स्वाहेह रमतिस्स्वाहा इति ३
जयप्रभृति
सिद्धमाधेनुवरप्रदानात् ४
अथान्यमक्षमाहरति अक्षितोऽस्यक्षित्यै त्वा मा मे
क्षेष्ठा अमुत्रामुष्मिन् लोके इति ५
अथैनं रथे योजयति आतिष्ठ
वृत्रहन् रथम् इति ६
अथ रथे मिथुनं प्रतिष्ठापयति प्रति
क्षत्रे प्रति तिष्ठामि राष्ट्रे । प्रत्यश्वेषु प्रति तिष्ठामि
गोषु । प्रत्यङ्गेषु प्रति तिष्ठाम्यात्मन् । प्रति प्रजायां प्रति
तिष्ठामि भव्ये इति ७
पूर्ववददनड्वाहौ युनक्ति । अथ मिथुनं
प्रतिष्ठाप्य प्रयातीति ८
अथ यदि बलवता समरथस्स्यात् पथाद्रथं
प्रसर्पयति अनृणा अस्मिन्ननृणाः परस्मिंस्पृतीये लोके
अनृणास्स्याम । ये देवयाना उत पितृयाणास्सर्वान् पथो
अनृणा आक्षीयेम इति ९
अथ पथमवस्थाय यानाय जपति मिथुनस्य स्वस्त्ययन्यस्यपि
पन्थामगस्महि स्वस्ति गामनेहसम् । येन विश्वाः परि द्विषो वृणक्ति
विन्दते वसु इति १०
अथ रथमभिप्रेति पथस्पथः परिपतिम् इति ११
अथ विद्युत्स्तनिते सन्त्रासस्स्यात्तमस्यैन्द्र्यावृचौ जपति यत इन्द्र
भयामहे स्वस्तिदा विशस्पतिः इति १२
अथ कर्मान्तमेव प्रतिपद्यते १३
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने चतुर्थोऽध्यायः