०३

अथ चतुर्थप्रश्ने तृतीयोऽध्यायः

सर्वत्र स्वयं प्रज्वलितेऽग्नौ समिधावादधाति उद्दीप्यस्व जातवेदः इति द्वाभ्याम् १ अथ श्मशानादिव्यतिक्रमे तमेवाग्निमुपसमाधाय सम्परिस्तीर्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति अग्निर्भूतानामधिपतिस्स माऽवतु स्वाहा इन्द्रो ज्येष्ठानामधिपतिस्स माऽवतु स्वाहा इति २ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३ अथैनन्मिथुनमभिमन्त्रयते इदं मिथुनमायुष्मदस्त्विदं मिथुनं प्रजावदस्त्विदं मिथुनं पशुमदस्त्विदं मिथुनं वीर्यवदस्तु इति ४
अथ उदुत्यं जातवेदसम् इति दक्षिणमनड्वाहं युनक्ति । चित्रं देवानामुदगादनीकम् इति सव्यं युक्त्वा प्रयातीति ५
अथ तीर्थव्यतिक्रमे नावा सन्तारः स्यात्तामनुमन्त्रयते अयं नो मह्याः पारमेतं स्वस्ति नेषद्वनस्पतिः । सीरा नस्सुतरा भव दीर्घायुत्वाय वर्चसे इति नावा तरन्तीं वधूं पश्यति ६
कूलमुत्तीर्यं जपति समुद्राय वयुनाय सिन्धूनां पतये नमः इति ७
दुर्गमध्वानं वा प्रपाद्य जातवेदसे इति सहस्रेणादित्यमुपतिष्ठते ८
आसन्नभये छल द्यूतव्यहारे राजकुले व्यसने बद्धो वा निरन्तरमुपांशु जपेदेतदेव । दुस्स्वप्नेषु शतं जपेदेतदेव ९

इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने तृतीयोऽध्यायः