अथ चतुर्थप्रश्ने तृतीयोऽध्यायः
सर्वत्र
स्वयं प्रज्वलितेऽग्नौ समिधावादधाति उद्दीप्यस्व जातवेदः इति द्वाभ्याम् १
अथ श्मशानादिव्यतिक्रमे तमेवाग्निमुपसमाधाय
सम्परिस्तीर्याऽग्निमुखात्कृत्वा
पक्वाज्जुहोति अग्निर्भूतानामधिपतिस्स माऽवतु स्वाहा इन्द्रो
ज्येष्ठानामधिपतिस्स माऽवतु स्वाहा इति २
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३
अथैनन्मिथुनमभिमन्त्रयते इदं
मिथुनमायुष्मदस्त्विदं मिथुनं प्रजावदस्त्विदं
मिथुनं पशुमदस्त्विदं मिथुनं वीर्यवदस्तु इति ४
अथ उदुत्यं
जातवेदसम् इति दक्षिणमनड्वाहं युनक्ति । चित्रं देवानामुदगादनीकम्
इति सव्यं युक्त्वा प्रयातीति ५
अथ तीर्थव्यतिक्रमे नावा सन्तारः
स्यात्तामनुमन्त्रयते अयं नो मह्याः पारमेतं स्वस्ति
नेषद्वनस्पतिः । सीरा नस्सुतरा भव दीर्घायुत्वाय वर्चसे इति
नावा तरन्तीं वधूं पश्यति ६
कूलमुत्तीर्यं जपति समुद्राय वयुनाय
सिन्धूनां पतये नमः इति ७
दुर्गमध्वानं वा प्रपाद्य जातवेदसे इति
सहस्रेणादित्यमुपतिष्ठते ८
आसन्नभये छल द्यूतव्यहारे राजकुले व्यसने बद्धो
वा निरन्तरमुपांशु जपेदेतदेव । दुस्स्वप्नेषु शतं जपेदेतदेव ९
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने तृतीयोऽध्यायः