अथ चतुर्थप्रश्ने द्वितीयोऽध्यायः
सर्वत्र
दर्वीकूर्चप्रस्तरपरिधिबर्हिःपवित्रेध्मद्रव्यसम्भाराणां
चेद्दाहोपघातेषु नाशे विनाशे वाऽन्यं यथालिङ्गं कृत्वा यथालिङ्गमुपसाद्य
त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयाऽसि प्रजापते
इत्येताभिस्स्रुवाहुतीर्जुहुयात् १
अथ यदि
परिस्तरणदाहे अग्नये क्षामवते स्वाहा इति हुत्वा
परिस्तृणाति ३
इन्द्रं वो विश्वतस्परि इन्द्रं नरः इति
द्वाभ्यां परिस्तीर्य जुहोति इन्द्राय स्वाहा इति ३
अथ यदि परिधिदाहे अन्यं
यथालिङ्गमुपसाद्य जुहोति प्ररित्वाऽग्ने पुरं वयम् इति ४
अथ वस्त्राणां
प्रोक्षितानां चेद्दाहोपघाते नाशे विनाशे अन्यत् यथालिङ्गं कृत्वा
यथालिङ्गमुपसाद्य जुहोति सोसाय स्वाहा इति ५
अथ सिचाऽभिघातस्स्यात्तदभिमन्त्रयते
सिगसि नसि वज्रोसि नमस्ते अस्तु मा मा हिंसीः इति दशासूत्रमादाय मुखवातेन
प्रध्वंसयेत् ६
अथ यदि गौर्वाऽऽश्वो वा श्वमृगमहिषमेषवराहदंष्ट्रावन्तो
वाऽन्यत् श्वापदमपसव्यं गच्छेत्तस्य पदमभ्युक्ष्य जपति तद्विष्णोः परमं
पदम् इति ७
एतेनैव रौद्रमभिव्याहरेद्वा । रौद्र्यावृचौ जुहुयात्
जपेद्वा त्वमग्ने रुद्रः आवो राजानम् इति ८
अथ यदि
शकुनमभिव्याहरेत्तां वाचमनुमन्त्रयते
द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् । उद्गातेव
शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । नश्शकुने अस्तु
प्रति नस्सुमना भव इति ९
अथ यदि सालावृकी वाश्येत तामनुमन्त्रयते
दीर्घमुखि दुर्हणु मा स्म दक्षिणतो वदः । यदि दक्षिणतो
वदाद्द्विषन्तं मेऽव बाधासै इति १०
अथ यद्यर्थी स्यात्
परिक्षवे परिकासने चाप उपस्पृश्य जपेत् अनुहवं परिहवं परीवादं
परिक्षपं दुस्स्वप्नं दुरुदितं तद्द्विषद्भ्यो दिशाम्यहम् ।
अनुहूतं परिहूतं शकुने यदशाकुनं मृगस्य सृतमक्ष्णया
तद्द्विषद्भ्यो दिशाम्यहम् इति ११
अथ नदीनां
धन्वनां च व्यतिक्रमे पुरस्तादुपस्थानं जपति या ओषधयो या
वनस्पतयो या नद्यो यानि धन्वानि ये वना । ते त्वा वधु
प्रजावतीं प्र त्वे मुञ्चन्त्वंहसः इति १२
अथ शकृद्व्यतिक्रमे
पुरस्तादुपस्थानं जपति नमश्शकृत्सदे रुद्राय नमश्शकृत्सदे ।
गामर्हसि नमस्ते अस्तु मा मा हिंसीः इति १३
अथ तीर्थस्थाणुचतुष्पथव्यतिक्रमे पुरस्तादुपस्थानं
जपति कृतं तीर्थं सुप्रपाणं शुभस्पती । स्थाणुं पथेष्टामप दुर्मतिं
हनत् इति १४
अथ चित्रियाणां लक्षणानां व्यतिक्रमे पुरस्तादुपस्थानं
जपति ये देवा याश्च देवीर्येषु वृक्षेष्वासते । श्रिया मे श्रियं
वृद्धिं वहन्तु मा मा हिंसिषुर्वहन्तु मोह्य मानाम् इति १५
अथ कर्मान्तमेव प्रतिपद्यते १६
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने द्वितीयोऽध्यायः