अथ चतुर्थप्रश्ने प्रथमोऽध्यायः
अथातस्सप्तपाकयज्ञानां प्रायश्चित्तानि व्याख्यास्यामः १
तत्रादित एवोपलिप्ते श्वा वेटको वा यदि गच्छेत्कीटो वा पिण्डकारी
स्यात् तत्पुनरुपलिप्य प्रोक्षति देवस्य त्वा सवितुः
प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो
हस्ताभ्यामग्नेस्तेजसा
प्रोक्षामि इति प्रोक्ष्य स्थण्डिलमुपलिप्य
स्थण्डिलमुद्धरेत् २
स्थण्डिलमुद्धृतं गौरश्वो
वा यदि विकिरेदन्यद्वा श्वापदमधितिष्ठेत्तस्य पदमभ्युक्ष्य जपति पृथिवि
देवयजन्योषध्यास्ते मूलं मा हिंसिषम् इति ३
अथ कृतान्तेन प्रतिपद्यते ४
अथ यदि प्रणीतापात्रं भिद्येत तदभिमन्त्रयते अभिन्नो घर्मो जीरदानुर्यत
आत्तस्तदगन् पुनः इति ५
अथान्यदाहरति घर्मो देवानप्येतु इति
पूरयित्वा व्याहृतिभिरुपतिष्ठते ६
अथ यदि प्रणीताः प्रणीयमानाः प्रणीता
वा परासिच्येरंस्ता अभिमन्त्रयते अक्षितोऽस्य क्षित्यै त्वा मा मे
क्षेष्ठा अमुत्रामुष्मिन् लोके इति ७
पूरयित्वोपतिष्ठते
भूरायुर्मे धारयत प्राणं मे धारयत प्रजां मे धारयत पशून् मे
धारयत मा म आयुः प्राणाः प्रजाः पशवः परासिच्येरन् इति ८
अथ यदि
कन्योपसाद्यमाना वोह्यमाना वा पतेत्तामुत्थापयेयुः
उदस्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात्
। इन्द्राय कृण्वती भागं मित्राय वरुणाय च इति ९
अथ यदि कन्योपसाद्यमाना
वोह्यमाना वा रजस्वला स्यात्तामनुमन्त्रयते पुमांसौ मित्रावरुणौ
पुमांसाश्विनावुभौ । पुमानिन्द्रश्च सूर्यश्च पुमांसं वर्धयेताम्
इति १०
अथ यदि कन्योपसाद्यमाना वोह्यमाना वाऽश्रु कुर्यात्तामनुमन्त्रयते
जीवां रुदन्ति विमयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः । वामं
पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे इति ११
इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने प्रथमोऽध्यायः