अथ तृतीयप्रश्ने त्रयोदशोऽध्यायः
अथर्तुसंवेशनादि
जन्मप्रभृति वा कुमारः क्रियाभिलुप्तस्स्यादुपनयनं चैकं स्यात्
तासां पृथक्पृथक्क्रियाणां करणं न चैकहोमे सर्वाणि कर्माण्युपपादयेत् १
यद्येकहोमे सर्वाणि कर्माण्युपपादयेत् प्रधानादौ द्वेद्वे
मिन्दाहुती जुहुयात् २
मिन्दाहुती हुत्वा जयानभ्यातानान्
३
रुद्राहुत्यन्ते च विज्ञायते रुद्रो वै क्रूरो देवानां सोऽस्य तुष्टः
प्रीतो भवति इति सर्वत्र
छेदनभेदनखनननिरसनपितृराक्षसनैरृतरौद्राभिचरणीयेष्वप
उपस्पृशेदिति विज्ञायते आपो वै शान्ताश्शान्ताभिरेवास्य शुचं शमयति इति
ब्राह्मणम् ४
आषोडशात् ब्राह्मणस्यानात्यय इत्याद्वाविंशात्
क्षत्रियस्याचतुर्विंशाद्वैश्यस्यात ऊर्ध्वं
पतितसावित्रीका भवन्ति ५
नैनानुपनयेयुर्नाध्यापयेयुर्न
विवहेयुर्न याजयेयुः ६
तांस्त्रिवृता व्रात्यस्तोमेन याजयित्वा विवाहयेयुः
७
यच्च किञ्चित्सगोत्राणां सर्वेषां च सशान्तिकम् कन्यानां चैव
जन्मादिकर्तव्याः कर्ममङ्गलाः ८
क्रियामयं हि
ब्राह्मण्यं नाक्रियं ब्रह्मोच्यते नाक्रियं ब्रह्मोच्यत
इति
इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने त्रयोदशोऽध्यायः