१३

अथ तृतीयप्रश्ने त्रयोदशोऽध्यायः

अथर्तुसंवेशनादि जन्मप्रभृति वा कुमारः क्रियाभिलुप्तस्स्यादुपनयनं चैकं स्यात् तासां पृथक्पृथक्क्रियाणां करणं न चैकहोमे सर्वाणि कर्माण्युपपादयेत् १ यद्येकहोमे सर्वाणि कर्माण्युपपादयेत् प्रधानादौ द्वेद्वे मिन्दाहुती जुहुयात् २
मिन्दाहुती हुत्वा जयानभ्यातानान् ३
रुद्राहुत्यन्ते च विज्ञायते रुद्रो वै क्रूरो देवानां सोऽस्य तुष्टः प्रीतो भवति इति सर्वत्र छेदनभेदनखनननिरसनपितृराक्षसनैरृतरौद्राभिचरणीयेष्वप उपस्पृशेदिति विज्ञायते आपो वै शान्ताश्शान्ताभिरेवास्य शुचं शमयति इति ब्राह्मणम् ४
आषोडशात् ब्राह्मणस्यानात्यय इत्याद्वाविंशात् क्षत्रियस्याचतुर्विंशाद्वैश्यस्यात ऊर्ध्वं पतितसावित्रीका भवन्ति ५ नैनानुपनयेयुर्नाध्यापयेयुर्न विवहेयुर्न याजयेयुः ६
तांस्त्रिवृता व्रात्यस्तोमेन याजयित्वा विवाहयेयुः ७
यच्च किञ्चित्सगोत्राणां सर्वेषां च सशान्तिकम् कन्यानां चैव जन्मादिकर्तव्याः कर्ममङ्गलाः ८
क्रियामयं हि ब्राह्मण्यं नाक्रियं ब्रह्मोच्यते नाक्रियं ब्रह्मोच्यत इति

इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने त्रयोदशोऽध्यायः