अथ तृतीयप्रश्ने द्वादशोऽध्यायः
अष्टकानुकृतिर्मासिकं तत्पुरस्ताद्व्याख्यातम् १
अथाभ्युदयिकेषु प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रान् दर्भान्
युग्मान् ब्राह्मणान् यवैस्तिलार्थः पृषदाज्यं हविः २
सोपयामेन पात्रेण
नान्दीमुखाः पितरः प्रीयन्तामित्यपां प्रतिग्रहणं विसर्जनं च ३
नान्दीमुखेभ्यः पितृभ्यस्स्वाहेत्यग्नौ करणमनुदेशनम् ४
आशयेषु परिसमूढेषु प्रागग्रेषु दर्भेषु पृषदाज्येनानुप्रदानं सर्वं
द्विर्द्विरिति ५
अथैकोद्दिष्टेषु नाग्नौकरणं नाभिश्रावणं न पूर्वं
निमन्त्रणं न दैवं न धूपं न दीपं न स्वधा न नमस्कारो
नात्रापूपम् ६
सर्वं सिद्धं समानीयायुग्मान् ब्राह्मणान्
सुप्रक्षालितपाणिपादानप आचमय्य सदर्भोपक्लप्तेष्वासनेषू वेश्य
सर्वस्मात्सकृत्सकृत् समवदायाभिघार्य दक्षिणतो
भस्ममिश्रानङ्गागन्निरूह्य
तेषु जुहुयात् प्रेतायामुष्मै यमाय च स्वाहा इति । तद्धुतमहुतं च भवति ७
अमुष्मै तृप्तिरस्त्वित्यपां प्रतिग्रहणं विसर्जनं च । अमुष्मा
उपतिष्ठत्वित्यनुदेशनमाशयेष्वेव पिण्डदानं तृप्यस्वेति
सङ्क्षालनं तृप्तिरस्त्विति विसर्जनमस्तु तृप्तिरितीतरेषां प्रतिवचनम्
८
प्रेतस्य द्वितीयाप्रभृति ब्राह्मणभोजनैरेकोत्तरवृद्धिरादशाहात् ९
अत्र
नवं विच्छिद्येत १०
एकादश्यां श्राद्धं तृतीये पक्षे द्वितीयं
सन्ततमेकैकेनैकादश मासान्नयन्ति न
द्वादशमासमभ्यारोहन्ति ११
संवत्सरे
सपिण्डीकरणं साग्नौकरणं साभिश्रावणं सपूर्वं सदैवं सधूपं सदीपं
सस्वधा सनमस्कारं सापूपम् १२
अथाप्युदाहरन्ति एकोद्दिष्टे
नवश्राद्धे नाग्नौ करणमिष्यते न चाभिश्रावणं कुर्यान्न च पूर्वं
तु कारयेत् १३
प्रणामं च न कुर्वीत स्वधाकारं तथैव च ऊर्ध्वं
संवत्सरात्प्रेतः पितृत्वमुपपद्यते १४
इतीन्न्वा
इमा अनुकृतयो व्याख्याताः १५
इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने द्वादशोऽध्यायः