१२

अथ तृतीयप्रश्ने द्वादशोऽध्यायः अष्टकानुकृतिर्मासिकं तत्पुरस्ताद्व्याख्यातम् १ अथाभ्युदयिकेषु प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रान् दर्भान् युग्मान् ब्राह्मणान् यवैस्तिलार्थः पृषदाज्यं हविः २
सोपयामेन पात्रेण नान्दीमुखाः पितरः प्रीयन्तामित्यपां प्रतिग्रहणं विसर्जनं च ३ नान्दीमुखेभ्यः पितृभ्यस्स्वाहेत्यग्नौ करणमनुदेशनम् ४ आशयेषु परिसमूढेषु प्रागग्रेषु दर्भेषु पृषदाज्येनानुप्रदानं सर्वं द्विर्द्विरिति ५
अथैकोद्दिष्टेषु नाग्नौकरणं नाभिश्रावणं न पूर्वं निमन्त्रणं न दैवं न धूपं न दीपं न स्वधा न नमस्कारो नात्रापूपम् ६
सर्वं सिद्धं समानीयायुग्मान् ब्राह्मणान् सुप्रक्षालितपाणिपादानप आचमय्य सदर्भोपक्लप्तेष्वासनेषू वेश्य सर्वस्मात्सकृत्सकृत् समवदायाभिघार्य दक्षिणतो भस्ममिश्रानङ्गागन्निरूह्य तेषु जुहुयात् प्रेतायामुष्मै यमाय च स्वाहा इति । तद्धुतमहुतं च भवति ७ अमुष्मै तृप्तिरस्त्वित्यपां प्रतिग्रहणं विसर्जनं च । अमुष्मा उपतिष्ठत्वित्यनुदेशनमाशयेष्वेव पिण्डदानं तृप्यस्वेति सङ्क्षालनं तृप्तिरस्त्विति विसर्जनमस्तु तृप्तिरितीतरेषां प्रतिवचनम् ८
प्रेतस्य द्वितीयाप्रभृति ब्राह्मणभोजनैरेकोत्तरवृद्धिरादशाहात् ९
अत्र नवं विच्छिद्येत १०
एकादश्यां श्राद्धं तृतीये पक्षे द्वितीयं सन्ततमेकैकेनैकादश मासान्नयन्ति न द्वादशमासमभ्यारोहन्ति ११
संवत्सरे सपिण्डीकरणं साग्नौकरणं साभिश्रावणं सपूर्वं सदैवं सधूपं सदीपं सस्वधा सनमस्कारं सापूपम् १२
अथाप्युदाहरन्ति एकोद्दिष्टे नवश्राद्धे नाग्नौ करणमिष्यते न चाभिश्रावणं कुर्यान्न च पूर्वं तु कारयेत् १३
प्रणामं च न कुर्वीत स्वधाकारं तथैव च ऊर्ध्वं संवत्सरात्प्रेतः पितृत्वमुपपद्यते १४
इतीन्न्वा इमा अनुकृतयो व्याख्याताः १५

इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने द्वादशोऽध्यायः