११

अथ तृतीयप्रश्ने एकादशोऽध्यायः

अथेमे देवते प्रबाधिन्यावुद्वाहिकाले यक्ष्यतम्यौ भवतस्तयोस्तदुपकॢप्तं भवति यत्सर्पबलौ १
अपां समीपे द्वे स्त्रीप्रतिकृतीकृत्य गन्धैर्माल्येन चालङ्कृत्यैवमेवाभ्यर्चयति २ तयोरर्चनमन्त्रः ते सूनवस्स्वपसम्सुदंससो मही जज्ञुर्मातरापूर्वचित्तये । स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ३
ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा । नव्यं नव्यं तन्तुमातन्वते दिवि समुद्रे अन्तः कवयस्सुदीतयः इति ४
अथैते उपसङ्गृह्य पार्श्वे दत्वा प्रवाह्य त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा व्याख्यातो यक्षीबलिः ५

इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने एकादशोऽध्यायः