अथ तृतीयप्रश्ने दशमोऽध्यायः
बलिहरणानुकृतिरेव सर्पबलिः १
संवत्सरे संवत्सरे षट्सु षट्सु
मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा वर्षास्वाश्रेषाषु
क्रियेत २
अपां समीपे वल्मीक्राग्रेण वा पचनम् ३
गन्धोदकैर्दूर्वोदकैश्चाभ्युक्ष्य
चित्रास्सुमनसस्सम्प्रकीर्य यवपिष्टानि व्रीहिपिष्टानि
श्यामाकपिष्टानि वाऽऽज्येनेक्षुरसेन वा पक्त्वा पायसं घृतपक्वांश्च
अपूपानोदनं धानास्सक्तून् करम्भान् लाजानित्युपकिरन्ति नमो अस्तु
सर्पेभ्यः इति तिसृभिरनुच्छन्दसम् ४
सर्पेभ्यस्स्वाहाऽऽश्रेषाभ्यस्स्वाहा
दन्दशूकेभ्यस्स्वाहा इति त्रयस्स्वाहाकाराः ५
जीर्वरो
ग्रहपतिरध्वर्युर्धृताराष्ट्र
ऐरावतो ब्रह्मदत्तस्तापसो होता पृथुश्रवा दूरेश्रवा उद्गाता
ग्लावश्चाजगश्च प्रस्तोता प्रतिहर्ता शितिपृष्ठो
मैत्रावरुणः तक्षको
वैशालकिर्ब्राह्मणाच्छंस्युपनीतिस्तार्क्ष्यस्सदस्यश्शिखातिशिखौ
नेष्टापोतारौ वारुणो होताऽच्छावाकश्चक्रः पिशङ्ग आग्नीध्रश्चाहिरो
महेयस्सुब्रह्मण्योऽर्बुदो ग्रावस्तुत्साण्ड उन्नेता
पशगो ध्रुवगोपः कौस्तुको धुरिमेजयश्च जनमेजयश्चे त्येतैरेव
नामधेयैः समीची नामासि प्राची दिक् इति षड्भिः पर्या यैः
हेतयो नाम स्थ तेषां वः पुरो गृहाः इति षड्भिः इदं सर्पेभ्यो हविरस्तु
जुष्टम् इति चोपस्थानम् ६
त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्य आशिषो
वाचयित्वा ७
व्याख्यातस्सर्पबलिर्व्याख्यातस्सर्पबलिः ८
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने दशमोऽध्यायः