०९

अथ तृतीयप्रश्ने नवमोऽध्यायः

बलिहरणानुकृतिरुत्सर्गः १
तैष्यां पौर्णामस्यां क्रियेतापि वा माघ्याम् २
सहान्तेवासिभिर्ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रापस्सुतीर्थास्सूपावगाहास्स्रवन्त्यस्स्ववकिन्यश्शङ्खिन्यस्तासामन्तं गत्वा स्नात्वाऽप आचम्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वाऽन्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वाऽन्यत्प्रयतं वासः परिधायाप आचम्यापां समीपे स्थण्डिलानि कृत्वा दर्भानन्योन्यस्मै सम्प्रदाय दर्मैरासनानि कल्पयन्ति ब्रह्मणे कल्पयामि प्रजापतये बृहस्पतये अग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यः संवत्सराय इन्द्राय राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यः रुद्रेभ्यः आदित्येभ्यः विश्भ्यो देवेभ्यः साध्येभ्यो देवेभ्यः मरुद्भ्यः ऋभुभ्यः भृगुभ्यः अथर्वभ्योऽङ्गिरोभ्यः विश्वामित्राय जमदग्नये जामदग्न्याय भरद्वाजाय गौतमाय आत्रेयाय वसिष्ठाय काश्यपाय अरुन्धत्यै कल्पयामीति ३
अथ दक्षिणतः अगस्त्याय कल्पयामीति ४
अथोत्तरतः निवीतिनः कृष्णद्वैपायनाय जातुकर्ण्याय तरुक्षाय तृणबिन्दवे सोमशुष्मिणे सोमशुष्मायणाय वाजिने वाजश्रवसे बृहदुक्थाय वर्मिणे वज्रिणे वरूथाय सनत्कुमाराय वामदेवाय वाजिरत्नाय वीरजिताय हर्यश्वाय उदमेघाय ऋणञ्जयाय तृणञ्जयाय कृतञ्जयाय धनञ्जयाय सत्यञ्जयाय बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे अश्वज्ञाय पराशराय मृत्यवे कर्त्रे विकर्त्रे सुकर्त्रे त्वष्ट्रे धात्रे विधात्रे सुश्रवसे सुतश्रवसे सत्यश्रवसे सवित्रे सावित्र्यै छन्दोभ्यः ऋग्वेदाय यजुर्वेदाय सामवेदाय अथर्ववेदाय अथर्वाङ्गिरोभ्यः इतिहासपुराणेभ्यः सर्पदेवजनेभ्यः सर्वभूतेभ्यः ५
अथ दक्षिणतः प्राचीनावीतिनो वैशम्पायनाय फलिङ्गवे तित्तिरये उखायोख्याय आत्रेयाय पदकाराय कौण्डिन्याय वृत्तिकाराय कण्वाय बोधायनाय प्रवचनकारायापस्तम्बाय सूत्रकाराय सत्याषाढाय हिरण्यकेशाय वाजसनेयाय याज्ञवल्क्याय भरद्वाजायाग्निवेश्यायाचार्येभ्य ऊर्ध्वरेतोभ्यो वानप्रस्थेभ्यः वंशस्थेभ्यः एकपत्नीभ्यः कल्पयामीति ६ अथ यथास्वयं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च ७
पृथक्पृथगेतैरेव नामधेयैर्गन्धपुष्पधूपदीपैरमुष्मै नमोऽमुष्मै नम इति ८ अन्नेनामुष्मै स्वाहाऽमुष्मै स्वाहेति । फलोदकेनामुं तर्पयाम्यमुं तर्पयामीति ९
त्रीनादितोऽनुवाकानधीयीरन् काण्डादीन् वा सर्वान् १० काण्डात्काण्डात्प्ररोहन्ती या शतेन प्रतनोषि इति द्वाभ्यामुपोदके दूर्वामारोपयन्तेऽथाधीप्सन्तेऽन्योन्यममुष्मा अमुष्मा इति ११
अथावगाह्य सम्परिगृह्योर्मिमन्तमुदधिं कृत्वा त्रिरुद्युत्या तमितोराजिं धावन्ति १२ प्रत्येत्य गृहानथ ब्राह्मणान् तर्पयन्त्यपूपैर्धानाभिस्सक्तुभिरोदनेनेति यद्यु वैतेभ्यो भवति १३
त्र्यहमेकाहं वा नाधीयीरन् मासं प्रदोषे नाधीयेरन् नित्यं चैव विद्युत्स्तनितवर्षाणामेकस्मिन् द्वयोर्वा काले त्रिषन्निपाते त्र्यहम् १४
यथोपाकृतौ छब्दसामेवमेवमुत्सृष्टौ कल्पानाम् १५
एवमेव पारायणसमाप्तौ काण्डादिदूर्वारोपणोदधिधावनवर्जम् १६

इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने नवमोऽध्यायः