अथ तृतीयप्रश्ने अष्टमोऽध्यायः
अथातोऽर्धमासेऽर्धमासेष्टम्यां
ब्राह्मणा ब्रह्मचारिणस्त्रियश्चाहरुपवसन्ति १
अथ प्रदोषे रुद्रं
विरूपाक्षं सपत्नीकं ससुतं सगणं सपार्षत्कमावाहयामि
इत्यावाह्य गन्धपुष्पधूपदीपैरभ्यर्च्य प्रतिपुरुषं पैष्टिकान्
दीपानेकातिरिक्तांश्चतस्रोऽष्टौ वा देवस्यायतने प्रतिदिशं
प्रद्योतयति उद्दीप्यस्व जातवेदः मा नो हिंसीत् इति द्वाभ्याम्
हव्यवाहमभिमातिषाहं स्विष्टमग्ने अभि इति द्वाभ्यां च २
अथोपसमिद्धमग्निं कृत्वा यदशनीयस्य जुहोति इमा रुद्राय
स्थिरधन्वने गिरः इति षड्भिरनुच्छन्दसं मा नो महान्तं मा
नस्तोके इति द्वाभ्यां वास्तोष्पते वास्तोष्पते इति द्वाभ्यां
आर्द्रया रुद्रः हेती रुद्रस्य इति द्वाभ्यां द्वादश सम्पद्यन्ते द्वादश
मासास्संवत्सरः संवत्सर एव प्रतितिष्ठति इति ब्राह्मणम् ३
समिधो
वाऽभ्यादधातीति विज्ञायते वैष्णवा वै वनस्पतयः
विष्णोस्सायुज्यं सलोकतामाप्नोति ४
स्तुतिभिस्स्तुन्वन्ति ब्रह्म वै ब्रह्मा
व्रह्मणस्सायुज्यं सलोकतामाप्नोति ५
सर्वं पाप्मानं तरति
तरति ब्रह्महत्यामपपुनर्मुत्युं जयतीत्याह भगवान् बोधायनः ६
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने अष्टमोऽध्यायः