अथ तृतीयप्रश्ने सप्तमोऽध्यायः
आहुतानुकृतिरायुष्यचरुः १
संवत्सरे संवत्सरे
षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासिमासि वा कुमारस्य
जन्मनक्षत्रे क्रियेत २
अथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः
कृत्वा व्रीही न्निर्वपति अग्नय आयुष्मते वो जुष्टं निर्वपामि इति ।
तूष्णीं वा ३
धान्यान्निर्वपति प्राणाय वो जुष्टं निर्वपामि
इति । तूष्णीं वा ४
तानभ्युक्ष्यावहत्य त्रिःफलीकृत्य त्रिःप्रक्षाल्य
निदधाति ५
तण्डुलान् वा निर्वपति ६
तानभ्युक्ष्य त्रिः प्रक्षाल्यैव
निदधातीति ७
अथ तिरःपवित्रं स्थाल्यामपः पयो वानीयाधिश्रित्य तिरःपवित्रं
तण्डुलानावपति ८
अथाज्यं निर्वपत्यथाज्यमधिश्रयत्युभयं पर्यग्नि कृत्वा
मेक्षणं स्त्रूवं च सम्मार्ष्टि ९
अथैतं चरुं
श्रपयित्वाऽभिघार्योदञ्चमुद्वास्य
प्रतिष्ठितमभिघारयति । एवमेव सर्वेषां स्थालीपाकानां चरुकल्पः ११
परिधानप्रभृत्याऽग्निमुखात् कृत्वा पक्वाज्जुहोति
आयुष्टे विश्वतो दधत् इति पुरोऽनुवाक्यामनूच्य आयुर्दा अग्ने
हविषो जुषाणः इति याज्यया जुहोति १२
अथाज्याहुतीरुपजुहोत्यथान्तरेणाग्निं
चाज्यस्थालीं च स्थालीपाकं निधाय तत्सहस्रं सम्पाताभिहुतं करोति १३
यो
ब्रह्म ब्रह्मण उज्जभार प्राणेश्वरः कृत्तिवासाः पिनाकी । ईशानो
देवस्स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन स्वाहा ४
बिभ्राजमानस्सरिरस्य मध्याद्रोचमानो
घर्मरुचिर्य आगात् स मृत्युपाशादपनुद्य घोरादिहायुषेणो घृतमत्तु
देवस्स्वाहा १५
ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात्पुरुरूपं
जयन्तम् सुवर्णरं भग्नहमर्कमर्चं तमायुषे वर्धयामो घृतेन स्वाहा १६
श्रियं लक्ष्मीमौपलामम्विकां गां षष्ठीं
जयामिन्द्रसेनेत्युदाहुः तां
विद्यां ब्रह्मयोनिं सरूपामिहायुषे तर्पयामो घृतेन स्वाहा १७
दाक्षायण्यस्सर्वयोन्यस्सयोन्यस्सहस्रशो विश्वरूपा
विरूपाः ससूनवस्सपतयस्सयूथ्या इहायुषेणो घृतमिदं जुषन्तां स्वाहा १८
दिव्या
गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथन्तु वीरान् तेभ्यो जुहोमि बहुधा
घृतेन मा नः प्रजां रिरिषो मोतवीरान् स्वाहा १९
एकः पुरस्ताद्य इदं
बभूव यतो बभूवुर्भुवनस्य गोपाः । यमप्येति भुवनं साम्पराये स नो
हविर्घृतमिहायुर्षेऽत्तु देवस्स्वाहा २०
वसून्
रुद्रानादित्यान् मरुतोऽथ साध्यान् ऋभून्
यक्षान् गन्धर्वांश्च पितॄंश्च विश्वान् । भृगून्
सर्पांश्चाङ्गिरसोऽथ सर्वान् घृतं हुत्वा
स्वायुष्यामहयाम शश्वत्स्वाहा २१
षड्विंशतिशतकृत्वस्तदाहुतीनां
अष्टसहस्रं सम्पद्यते २२
इतरस्मात्पक्वात्सौविष्टकृतं जुहोति २३
जयप्रभृति सिद्धमाधेनुवरप्रदानात् २४
अथाग्रेणाग्निं
दूर्वास्तम्बेषु हुतशेषं निदधाति मा नो महान्तं मा
नस्तोके इति द्वाभ्याम् २५
अपरेणाग्निं प्राङ्मुख उपविश्य वाग्यतः
स्थालीपाकं सगणः प्राश्नाति । तस्य प्राशनमन्त्रः आयुरसि विश्वायुरसि ।
सर्वायुरसि सर्वमायुरसि । सर्व म आयुर्भूयात् । सर्वमायुर्गेषम् इति
प्राश्याप आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः
इति द्वाभ्याम् २६
कुमाराणां ग्रहगृहीतानां ज्वरगृहीतानां
भूतोपसृष्टानां आयुष्येण
घृतसूक्तेनाहरहस्स्वस्त्ययनार्थं
स्वाध्यायमधीयीतैतैरेव मन्त्रैराहुतीर्जुहुयादेतैरेव मन्त्रैर्बलीन्
हरेदगदो हैव भवति २७
तदेतदृद्धमयनं भूतोपसृष्टानां राष्ट्रभृतः
पञ्चचोडास्सर्पाहुतिर्गन्धर्वाहुतिरहरहस्स्वस्त्ययनार्थं
स्वाध्यायमधीयीतैतैरेव
मन्त्रैराहुतीर्जुहुयात् एतैरेव
मन्तैर्बलीन् हरेदगदो हैव भवति । तदेतदृद्धमयनं
हुतप्रहुतानुकृतयोऽन्ये होमाः बलिहरणानुकृतीन्यभ्यर्चनान्याश्रमानुकृतयस्संश्रया
इति २९
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने सप्तमोऽध्यायः