०६

अथ तृतीयप्रश्ने षष्ठोऽध्यायः

अथ यद्यगारे स्थूणा विरोहेत् कपेतो वाऽगारमध्येऽधिपतेत् वायसो वा गृहं प्रविशेत् गौर्वा गां धयेत् गौरात्मानं प्रति धयेत् अन वान्वा दिवमुल्लिखेत् अनग्नौ वा धूमो जायेत अनग्नौ वा दीप्येत मधु वा जायेत वल्मीकं वोपजायेत निर्यासं वोपजायेत छत्राकं वोपजायेत मण्डूको वाऽब्भ्रिणे वाशयेत् श्वानप्रसूतो वा सर्पो वा गृहपतिं जायां वोपतपद्विन्देतान्येषु । अद्भुतोत्पातेषु १
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् २
अथाज्याहुतीरुपजुहोति वास्तोष्पते वास्तोष्पते शं नो देवीः इन्द्राग्नी रोचना कया नश्चित्र आ भुवत् को अद्य युङ्क्ते भवतं नस्समनसो इति ३
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ४ अथाप्रेणाग्निं शमीपर्णेषु हुतशेषं निदधाति शं नो देवीरभिष्टये इति ५
स्थालीसङ्क्षालनमाज्यशेषमुदकशेषं च पात्र्यां समानीय तेषूत्पातेषु निनयेत् प्रोक्षेद्वा तच्छंयोरावृणीमहे इति ६
अन्नं संस्कृत्य ब्राह्माणान् सम्पूज्याशिषो वाचयित्वा शिवं शिवमिति प्रोक्षति ७ अद्भुतो व्याख्यातः ८

इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने षष्ठोऽध्यायः