अथ तृतीयप्रश्ने पञ्चमोऽध्यायः
प्रहुतानुकृतिर्वास्तुशमनम् १
स यत्र दशोषित्वा प्रयास्यन्
भवति दशभ्यो वोर्ध्वं सदारस्साग्निहोत्रिकस्तद्वास्तोष्पतीयं हुत्वा
प्रयातीति २
सर्व एवा हिताग्निरित्येके ३
यायावर इत्येके ४
यच्चागारं कारयित्वा प्रथममध्यवस्येत्तद्वास्तोष्पतीयेन
शमयित्वाऽध्यवस्येत् ५
तदु हैके यजुषा स्थूणा
उच्छ्रायन्ति यजुषा वंशान् यजुषा छदींषि यजषाब्भ्रिणं यजुषा तल्पदेशं
यजुषा वास्तुमध्यं यजषाऽजुषाग्निनिधानम् ६
स यन्द्युहैवं कुर्याद्यथा
यजुषोच्छ्रियन्ते सदस्यर्क्सामयजूंष्यथर्वणान्याङ्गिरसानि
मिथुनीसम्भवन्तीति तद्यदध्यवस्येद्यथा
मिथुनीसम्भवन्तावध्यवस्येत्तादृक्तद्यद्यजुष्कृतं स्यात् ७
आधयो व्याधयो ग्रहा उपसर्गाश्चाहन्युः ८
तस्मात्तूष्णीमगारं
कारयित्वा द्वारदेशमलङ्कृत्य वास्तुमध्यं विमायाब्भ्रिणं
पूरयित्वा तल्पदेशं कल्पयित्वोत्तरपूर्वदेशेऽगारस्य
गृह्याग्निमुपसमाधाय
सम्परिस्तीर्याग्निमुखात्कृत्वा
पक्वाज्जहोति वास्तोष्पते प्रतिजानीह्यस्मान् इति पुरोनुवाक्यामनूच्य
वास्तोष्पते शग्मया संसदा ते इति याज्यया जुहोति ९
अथाज्याहुतीरुपजुहोति १०
वास्तोष्पते ध्रुवा
स्थूणां सत्रं सोम्यानाम् । द्रप्सो भेत्ता पुरां
शश्वतीनामिन्द्रो मुनीनां सखा स्वाहा ११
गृह्यं
भयं यच्चेद्द्विपात्सु यदु चेच्चतुष्पात्सु भयं यदस्ति ।
अग्निर्यविष्ठ्यः प्रणुदतु तद्भयं शं नः
प्रजाभ्यः शमु नः पशुभ्यस्स्वाहा १२
अक्षिस्पन्देऽङ्गचले च यद्भयं
यद्वशिते यदु चेद्दुरुक्ते । अग्निर्यविष्ठ्यः प्रणुदतु तद्भयं
शं नः प्रजाभ्यः शमु नः पशुभ्यस्स्वाहा १३
दुस्स्वप्ने पापस्वप्ने च
यद्भयं स्वप्नाशनं यदमेध्यदर्शने । अग्निर्यविष्ठ्यः प्रणुदतु
तद्भयं शं नः प्रजाभ्यः शमु नः पशुभ्यस्स्वाहा १४
वास्तोष्पते
प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव
पुत्रान् प्रति नो जुषस्व स्वाहा १५
अभीवहा वास्तोष्पते
विश्वारूपाण्याविशन् । सखा सुशेव
एधि नस्स्वाहा । इति १६
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्
१७
अथाग्रेणाग्निं दर्भस्तम्बेषु हुतशेषं निदधाति नमो रुद्राय
वास्तोष्पये । आयने विद्रावणे । उद्याने यत्परायणे ।
आवर्तने निवर्तने । यो गोपायति तं हुवे इति १८
स्थालीसङ्क्षालनमाज्यशेषमुदकशेषं च
पात्र्यां समानीयौदुम्बरशाखया पलाशशाखया शमीशाखया दर्भमुष्टिना वा सर्वतः
पर्युक्षन् त्रिः प्रदक्षिणमगारं पर्येति त्वं विप्रः त्वं कविः त्वं
विश्वा रूपाणि धारयन् अप जन्यं भयं नुद इति १९
अन्नं संस्कृत्य
ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा शिवं वास्तु शिवं वास्त्विति
२०
वास्तुशमनं व्याख्यातम् २१
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने पञ्चमोऽध्यायः