०४

अथ तृतीयप्रश्ने चतुर्थोऽध्यायः

अथातोऽवान्तरदीक्षां व्याख्यास्यामः १ उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे केशश्मश्रु वापयित्वा पूर्ववदुपाकृत्य ग्रामात्प्राचीं वोदीचीं वा दिशामुपनिष्क्रम्याखलेऽछदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्यः आसनानि कल्पयति २
अग्रेणाग्निं प्रवर्ग्याय कल्पयामि । घर्माय कल्पयामि । महावीराय कल्पयामि । संराज्ञे कल्पयामीति ३
दक्षिणेनाग्निं ब्रह्मणे कल्पयामि प्रजापतये कल्पयामीति ४
उत्तरेणाग्निं ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यः कल्पयामि । देवेभ्यो घर्मपेभ्यः कल्पयामीति ५
अथ दक्षिणतः प्राचीनावीती पितृभ्योऽघर्मपेभ्यः कल्पयामि । यमायाङ्गिरस्वते पितृमते कल्पयामीति ६
अथाप उपस्पृश्योत्तरतो यज्ञोपवीती रुद्राय रुद्रहोत्रे कल्पयामीति ७
प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यस्तर्पयति ८
अग्रेणाग्निं प्रवर्ग्य तर्पयामि । महावीरं तर्पयामि । संराजं तर्पयामीति ९
दक्षिणेनाग्निं ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामीति १०
उत्तरेणाग्निमृषीन् मन्त्रकृतो मन्त्रपतीन् तर्पयामि । देवान् घर्मपांस्तर्पयामीति ११
अथ दक्षिणतः प्राचीनावीती पितॄन् घर्मपात् तर्पयामि । यममङ्गिरस्वन्तं पितृमन्तं तर्पयामीति १२
अथाप उपश्पृश्योत्तरतो यज्ञोपवीती रुद्रं रुद्रहोतारं तर्पयामीति १३
अथाप उपस्पृश्य सर्वाः प्रवर्ग्यदेवतास्तर्पयामीति १४
अथ चतस्र औदुम्बरीस्समिधोऽपरिशुष्काग्रा घृताभ्यक्ता अभ्याधापयन् वाचयति पृथिवी समित् इत्येतैः प्रतिमन्त्रम् १५
अथ देवता उपतिष्ठते अग्ने व्रतपते शुक्रियं व्रतं रिमिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामिति १६
अथैतेषामनुवाकानां प्रभृति वाचयति प्रथमोत्तमयोर्वा १७
अथैनं संशास्ति समील्य वाचं यच्छे इति १८
अथास्याहतेन वाससा त्रिः प्रदक्षिणं समुखं शिरो वेष्टयति चितस्स्थ परिचितः । स्वाहा मरुद्भिः परिश्रियस्व इति १९
प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यस्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वाऽथा स्तमित आदित्ये ग्राममायान्ति २०
वाग्यतस्तिष्ठेदेतां रात्रिमुपविशेत् संवेशयेद्वा २१
अथ प्रातरुदित आदित्ये ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्याखलेऽछदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयित्वा वयस्सुपर्णाः इति वासो विमुच्याथास्य षट्तयमभिनिर्दशयति अग्निमप आदित्यं गां ब्राह्मणं हिरण्यमिति २२
त्रीनादितो दर्शयित्वा यथोपपादमितराणि दर्शयित्वा प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यस्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वाऽथास्य व्रतचर्यामुपदिशेत् २३
न यानमारोहेन्न वृक्षमधिरोहेन्न कूपमवरोहेन्न छत्रं धारयीत नोपानहौ धारयीत नासन्द्यां शयीत न स्त्रिया न शूदेण सह सम्भाषेत यदि सम्भाषेत ब्राह्मणेन सह सम्भाषेत न सायं भुञ्जीत यदि सायं भुञ्जीतापज्वलितं भुञ्जीत न स्नायादष्टम्यां पर्वणि चोपवसेत्तदहश्च स्नायाद्वाग्यतस्तिष्ठेदेतां रात्रिमुपविशेत् संवेशयेद्वा २४
अमेध्यलोहितशवपात्रदर्शने ज्योतिषां सन्दर्शनम् २५
अमेध्यं दृष्ट्वा जपति अबद्धं मनो दरिद्रं चक्षुस्सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीः इति २६
अथ यद्येनमभिवर्षति उन्दतीर्बलं धत्तौ जोधत्त बलं धत्त मा मे दीक्षां मा तपी निर्वधिष्ट इत्येव तत्र जपति २७ संवत्सरमेतद्व्रतं चरेत् संवत्सरं हि व्रतं नातीत्यैतस्मिंस्त्वेवैतत् संवत्सरेऽधीयीत २८
यद्यु वैतस्मिन् संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत्संवत्सरे पर्यवेतेऽध्यापयते श्रावयते वा २९ पूर्वेवदुपाकृत्य ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्याखलेऽछदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयित्वाऽथाव्रत्यप्रायश्चित्ते जुहोति यन्म आत्मनो मिन्दाऽभूत् पुनरग्निश्चक्षुरदात् इति द्वाभ्याम् ३० प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यः तर्पयित्वा चतस्र औदुम्बरीस्समिधोऽपरिशुष्काग्रा घृताभ्यक्ता अभ्याधापयन् वाचयति द्यौस्समित् इत्येतैः प्रतिमन्त्रम् अथ देवता उपतिष्ठते आदित्य व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि । वायो व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि । अग्ने व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि । व्रतानां व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि इति ३२ प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधोऽथाभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यः तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वाऽथास्याध्यायेऽनध्यायानुपदिशेत् । नाधीयीतास्तमित आदित्ये नानुदिते नानुविप्रोषिते न पर्यावृत्ते नाभ्रच्छायायां न ग्राम्यस्य पशोरन्ते नारण्यस्य नापामन्ते न हरितयवान् प्रेक्षमाणो न हर्म्याणी न शरीराणि न लोहितमुत्पादितं दृष्ट्वा न मांसमशित्वा न श्राद्धं भुक्त्वा न केशश्मश्रु वापयित्वा न केशान् प्रसार्य न दतो धावते नाङ्क्ते नाभ्यङ्क्ते नार्दो नार्द्रेण वाससा नार्द्रायामिति ३४ अथ स्वाध्यायमधीयीतापरेणाग्निं दर्भेष्वासीनो दर्भान् धारयमाणः पराचीनं स्वाध्यायमधीयीत पुनरेव शान्तिं कृत्वाऽधीयीत ३५
अथ यदि लौकिकमनुव्याहरेद्यत्रक्वचिद्यद्यशान्तिकृ पश्येत्पुनरेव शान्तिं कृत्वाऽधीयीत चोत्तमेन प्रवर्ग्यायोपनिष्क्रम्य नाप्रविश्य काममन्यदधीयीतान्यदधीयीत ३६

इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने चतुर्थोऽध्यायः