०३

अथ तृतीयप्रश्ने तृतीयोऽध्यायः

अष्टाचत्वारिंशत्सम्मितं सम्मितमित्याचक्षते १
तस्य सङ्क्षेपस्संवत्सरः २ तत्संवत्सरमनुव्याख्यास्यामः ३
स यदि ब्रह्मचारी स्यान्नियममेव प्रतिपद्यते ४
अथ यद्यब्रह्मचारी स्यात् केशश्मश्रुलोमनखानि वापयित्वा तीर्थं गत्वा स्नात्वाऽप आचम्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिरिति मार्जयित्वाऽन्तर्जलगतोऽघमर्षणेन षोडश प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वाऽन्यत्प्रयतं वासः परिधायाप आचम्य देवयजनमुदानयति ५
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वाऽथाव्रत्यप्रायश्चित्तं जुहोति नाहं करोमि कामः करोति कामः कर्ता कामः कारयितैतत्ते काम कामाय स्वाहा नाहं करोमि मन्युः करोति मन्युः कर्ता मन्युः कारयितैतत्ते मन्यो मन्यवे स्वाहा इति ६
अथ यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यस्सम्मितीभ्यस्स्वाहा इति चतस्रः ७
अथ काण्डऋषिं जहोति स्वयम्भुवे काण्डऋषये स्वाहा इति ८
अथ सदसस्पतिं जुहोति सदसस्पतिमिति ९
अथ सावित्रीं जुहोति तत्सवितुः इत्येताम् १०
अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ११
अथ चतस्र औदुम्बरीस्समिधोऽपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन् वाचयति १२ याज्ञिकानां वा वृक्षाणामन्यतमस्य १३
अग्ने व्रतपतेऽष्टाचत्वारिंशत्सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा वायो व्रतपतेऽष्टाचत्वारिंशत्सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा आदित्य व्रतपतेऽष्टाचत्वारिंशत् सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा व्रतानां व्रतपतेऽष्टाचत्वारिंशत्सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति १४
जयप्रभृति सिद्धमाधेनुवरप्रदानात् १५
एवमेव व्रतान्ते । अधोताभ्युपरिजान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशन् अनग्निपक्ववृत्तिरच्छायोपयोगो नागारं प्रविशेदन्यत्र गुरुनियोगात् १६ भैक्षं वा तत्कालं भुञ्जीत १७
कामं कन्दमूलफलम् १८
अपराह्णे प्रसिद्धमुपस्पृश्य तदपि नोपयुञ्जीत १९ स्त्रीशूद्रपतितरभसरजस्वलाभिश्च न सम्भाषेत २०
कामं मातरमुगध्यायिनीं भगिनीं च २१
याश्चान्या एवंयुक्ताः स्त्रियोऽशक्ताः पराक्रमे २२
सप्रणवा व्याहृतयः प्राणायामाग्नीन्धनभैक्षाचरणस्थानासनशयनोपस्पर्शनसुमनसोनिवेदनानि च २३
सर्वास्सम्मितदेवतास्तर्पयति ब्रह्माणं तर्पयामि प्रजापतिं तर्पयामि परमेष्ठिनं तर्पयामि स्थाणुं तर्पयामि शिवं तर्पयामि शर्वं तर्पयामि बहुरूपं तर्पयामि स्कन्दं तर्पयामि इन्द्रं तर्पयामि यमं तर्पयामि ऋषींस्तर्पयामि पितॄंस्तर्पयामि सर्वास्सम्मितदेवतास्तर्पयामि इति प्रसख्याय समाप्नुयात् २४
गुरोस्समानवृत्तिषु गुरुवृत्तिस्स्यात् २५ प्रेबितस्तदेव प्रतिपद्येतान्यत्र पातकात् २६
एवं द्वादश संवत्सरानेकादश नव सप्त पञ्च त्रीन् संवत्सरान् षण्मासान् चतुरो मासान् द्वौ मासौ मासं वा व्रतं चरेत् २७
अपि वा योऽनूचानश्रोत्रियस्स द्वादशरात्रं पराकं वा व्रतं चरेन्न त्वेवासम्मिती स्यात् २८
स एष चरति दशपूर्वान् दशापरानात्मानं चैकविंशतिं पङ्क्तिं च पुनाति २९
यस्मा उपदिशति यस्यामुपविशति यस्मै ददाति यस्माच्च प्रतिगृह्णाति तत्सर्वं पुनाति ३०
व्रतसमाप्तौ वेदसमाप्तौ वा गुरुदक्षिणामाहरेद्धार्मिको यथाशक्ति ३१
विषमगते त्वाचार्य उग्रतश्शूद्रतो वाहरेत् ३२
सर्वतो वोग्रतश्शूद्रतोऽप्याचार्यार्थं स्यादाहरणं धार्म्यमित्येके ३३
एतेन धात्रन्तरशैवबहुरूपपार्षदस्कन्देन्द्राणां व्रतानां समापनं ब्रह्माभ्यसेदृक्साम यजुर्वा छन्दसामनुसवनं लभेत काममिति ह स्माह बोधायनः ३४

इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने तृतीयोऽध्यायः