०२

अथ तृतीयप्रश्ने द्वितीयोऽध्यायः

आचार्यप्रसूतः कर्माणि करोतीति विज्ञायते १
आचार्यो वै ब्रह्मेति २
काण्डेकाण्डे च व्रतचर्या ३
अथेमानि ब्राह्मणानि सांवत्सरिकैर्व्रतैरध्येयानि भवन्ति होतारश्शुक्रियाण्युपनिषदो गोदानं सम्मितं इति ४
होतृषु प्रधानकालेष्वथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यो होतृभ्यस्स्वाहा सांहितीभ्यो देवताभ्यो होतृभ्यस्स्वाहा वारुणीभ्यो देवताभ्यो होतृभ्यस्स्वाहा सर्वाभ्यो देवताभ्यो होतृभ्यस्स्वाहा इति ५
अथ काण्डऋषिं जुहोति प्रजापतये काण्डऋषये स्वाहा इति ६
अथ सदसस्पतिं जुहोति सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषं स्वाहा इति ७
अथ सावित्रीं जुहोति तत्सवितुर्वरेण्यमित्येताम् ८
अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ९
अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशास्सप्ररोहाः प्रादेशमात्रा अपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति १०
याज्ञीकानां वा वृक्षाणामन्यतमस्य ११
अग्ने व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा वायो व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा आदित्य व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा व्रतानां व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति १२
जयप्रभृति सिद्धमाधेनुवरप्रदानात् १३
संवत्सरमेतद्व्रतं चरेत् संवत्सरं हि व्रतं नातीत्यैतस्मिंस्त्वेवैतत्संवत्सरेऽधीयीत १४
यद्यु वैतस्मिन् संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत् १५
अथ संवत्सरे पर्यवेतेऽध्यापयते श्रावयते वा १६
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वाऽथाव्रत्यप्रायश्चित्तं जुहोति यन्मे आत्मनो मिन्दाऽभूत् पुनरग्निश्चक्षुरदात् इति द्वाभ्याम् १७ यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यो होतृभ्यस्स्वाहा इति चतसृभिः १८
अथ काण्डऋषिं जुहोति प्रजापतये काण्डऋषये स्वाहा इति १९ अथ सदसस्पतिं जुहोति सदसस्पतिमिति २०
अथ सावित्रीं जुहोति तत्सवितुः इत्येताम् २१
अथ वेदाहुतीर्जुहो ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभून्तेभ्यस्स्वाहा इति २२
अथ पालाशीश्चतस्रस्समिध आर्द्रांस्सपलाशास्सप्ररोहाः प्रदेशमात्रा अपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन् वाचयति २३ याज्ञिकानां वा वृक्षाणामन्यतमस्य २४
अग्रे व्रतपते होतारं व्रतमचारिषं तदशकं तन्मेराधि स्वाहा वायो व्रतपतेहोतारं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा आदित्य व्रतपते होतारं व्रतमचरिषं तदशकं तन्मे राधि स्वाहा व्रतानां व्रतपते होतारं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा इति जयप्रभृति सिद्धमा धेनुवरप्रदानात् २६
अथ शुक्रियाणि २७
तेषामुक्ता व्रतचर्या २८
अथोपनिषत्सु २९
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा इति चतस्रः ३०
अथ काण्डऋषिं जुहोति विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यस्स्वाहा इति ३१
अथ सदसस्पतिं जुहोति सदसस्पतिमिति ३२
अथ सावित्रीं जुहोति तत्सवितुर्वरेण्यमित्येताम् ३३
अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ३४
अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशास्सप्ररोहाः प्रादेशमात्रा अपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन् वाचयति ३५ याज्ञिकानां वा वृक्षाणामन्यतमस्य ३६
अग्ने व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा वायो व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा आदित्य व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा व्रतानां व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति ३७
जयप्रभृति सिद्धमाधेनुवरप्रदानात् ३८ संवत्सरमेतद्व्रतं चरेत् संवत्सरं हि व्रतं नातीत्यैतस्मिंस्त्वेवैतत् संवत्सरेऽधीयीत ३९
यद्यु वैतस्मिन् संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत् ४०
अथ संवत्सरे पर्यवेतेऽध्यापयते श्रावयते वा ४१
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वाऽथाव्रत्यप्रायश्चित्तं जुहोति यन्म आत्मनः पुनरग्निश्चक्षुरदात् इति द्वाभ्याम् ४२
अथ यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा इति चतस्रः ४३
अथ काण्डऋषिं जुहोति विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यस्स्वाहा इति ४४
अथ सदसस्पतिं जुहोति सदसस्पतिमिति ४५
अथ सावित्रीं जुहोति तत्सवितुर्वरेण्यमित्येताम् ४६
अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ४७
अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशास्सप्ररोहाः प्रादेशमात्रा अपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन् वाचयति ४८
याज्ञिकानां वा वृक्षाणामन्यतमस्य ४९ अग्ने व्रतपत उपनिषदं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा वायो व्रतपत उपनिषदं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा आदित्य व्रतपत उपनिषदं व्रतमाचारिषं तदशकं तन्मे राधि स्वाहा व्रतानां व्रतपत उपनिषदं व्रतमाचारिषं तदशकं तन्मे राधि स्वाहा इति ५०
जवप्रभृति सिद्धमा धेनुवरप्रदानात् ५१
षोडशे वर्षे गोदानम् ५२
तस्य चौलवत्तूष्णीं प्रतिपत्तिरवसानं च ५३
एतावदेव नाना ५४
प्रतिपत्तौ सर्वान् केशान् वापयति ५५
गामत्र गुरवे वरं ददाति ५६
अग्निगोदानो वा भवति ५७
तस्य काण्डोपाकरणकाण्डसमापनाभ्यां प्रतिपत्तिरवसानं च ५८ सर्ववेदसम्मितमित्याचक्षते ५९
तस्य द्वादश संवत्सरानेकादश नव सप्त पञ्च त्रीन् संवत्सरान् षण्मासान् चतुरो मासान् द्वौ मासौ मासं वा व्रतं चरेत् ६०
तस्योपदेशात् प्रतिपत्तिरवसानं च ६१
तस्य नित्येऽधिब्रह्मचर्यं त्रिषवणमभिषेक उत्सन्नशय्या आसनं च ६२
यन्मातुर्दुश्चरितं तस्मादेनं त्रायत इत्युपदिशति मन्त्रब्राह्मणं वेद इत्याचक्षते ६३

इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने द्वितीयोऽध्यायः