अथ तृतीयप्रश्ने प्रथमोऽध्यायः
हुतानुकृतिरुपाकर्म १
श्रावण्यां पौर्णमास्यां क्रियेतापि वा
आषाढ्याम् २
समन्वारब्धेष्वन्तेवासिषु ३
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्
कृत्वा चतस्रः प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यस्स्वाहा
सांहितीभ्यो देवताभ्यस्स्वाहा । वरुणीभ्यो
देवताभ्यस्स्वाहा । सर्वाभ्यो
देवताभ्यस्स्वाहा इति ४
अथ काण्डऋषीन्
जुहोति प्रनापतये काण्डऋषये स्वाहा । सोमाय काण्डऋषये स्वाहा ।
अग्नये काण्डऋषये स्वाहा । विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यस्स्वाहा ।
स्वयम्भुवे काण्डऋषये स्वाहा इति ५
अथ सदसस्पतिं जुहोति सदसस्पतिमद्भुतं
प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषं स्वाहा इति ६
अथ सावित्रीं
जुहोति तत्सवितुर्वरेण्यमित्येताम् ७
अथ वेदाहुतीजुहोति ऋग्वेदाय
स्वाहा । यजुर्वेदाय स्वाहा । सामवेदाय स्वाहा । अथर्ववेदाय
स्वाहा । अथर्वाङ्गिरोभ्यस्स्वाहा । इतिहासपुराणेभ्यस्स्वाहा ।
सर्पदेवजनेभ्यस्स्वाहा । सर्वभूतेभ्यस्स्वाहा इति ८
त्रीनादितोऽनुवाकानधीयीरन् वा सर्वान् ९
जयप्रभृति सिद्धमाधेनुवरप्रदानात् १०
अथ ब्राह्मणान्
तर्पयत्यपूपैर्धानाभिस्सक्तुभिरोदनेनेति यद्यु वैतेभ्यो भवति
११
ऋषयश्छन्दांस्याचार्या वेदा यज्ञाश्च प्रीयन्तामिति वाचयित्वा १२
त्र्यहमेकाहं वा नाधीयीरन् १३
मासं प्रदोषे नाधीयीरन् १४
नित्यं चैव
भुक्त्वोर्ध्वम् १५
मध्यरात्रात् स्तनिते सप्रदोषमहरनध्यायः अस्तमिते ।
चोदयाद्विद्युति च स्वप्नान्तम् १६
एवमेव
काण्डोपाकरणक्राण्डसमापनाभ्याम्
१७
स एकः काण्डऋषिः १८
तस्य चैवैकस्य काण्डस्याद्योऽनुवाकः १९
तस्य
चैवैकस्य काण्डस्यैतदहरनध्यायः २०
एवं काण्डविसर्गे ।
एतावदेव नाना नात्रानुवाकः । पौरोडाशिकं याजमानं होतारो हौत्रं
पैतृमेध इति सब्राह्मणानि सानुब्राह्मणानि प्राजापत्यानि २१
आध्वर्यवं
ग्रहा दाक्षिणानि समिष्टयजूंष्यवभृथयजूंषि वाजपेयश्शुक्रियाणि सवा इति
सब्राह्मणानि सानुब्राह्मणानि सौम्यानि २२
अग्न्याधेयमग्निहोत्रमग्न्युपस्थानमग्निचयनं
सावित्रं नाचिकेतं चातुर्होत्रीयं वैश्वसृजारुणा इति सब्राह्मणानि
सानुब्राह्मणान्याग्नेयानि २३
राजसूयः पशुबन्धः इष्टयो
नक्षत्रेष्टयो दिवश्येनयोऽपाघास्सात्रायणमुपहोमाः
कौकिलीसूक्तान्यौपानुवाक्यं
याज्याऽश्वमेधः पुरुषमेधस्सौत्रामण्यच्छिद्राणि पशुहौत्रमुपनिषद इति
सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानि २४
स्वायम्भुवं काण्डं
काठके पठितो विधिः स्वयम्भूश्चात्र दैवतं सर्वभूतपतिश्शुचिरिति
२५
अथ कारीरीव्रतं चतूरात्रमक्षारलवणं भूमौ भुञ्जीत पशुवत् २६
एववेम
काराव्रतम् २७
सावित्रीभ्यः प्रभृत्यूर्ध्वमोषध्यनुवाकानधीयीरन्नात्र भूमौ भुञ्जीत न पशुवदिति २८