अथ द्वितीयप्रश्ने एकादशोऽध्यायः
अथाष्टकाहोमः १
तैषे मास्यपरपक्षस्याष्टम्यां क्रियेत २
एवं माघ एवं फाल्गुने यदि विहृतः ३
यद्यु वै समस्त उपरिष्टान्माध्याः
पौर्णमास्या आरपक्षस्य सप्तम्याष्टम्यां नवम्यामिति क्रियेतापि
वाऽष्टम्यामेव ४
श्वः करिष्यामीति ब्राह्मणान्निमन्त्रयते
योनिगोत्रश्रुतवृत्तसम्बन्धानित्येके ५
कामं
सम्बन्धानपि श्रुतवृत्तसम्पन्नान् श्रुतवृत्तयोर्हि स्वधा
निधीयत इत्युपदिशन्ति ६
तान् श्वोभूते
श्मश्रुकर्माभ्यञ्जनस्नानैर्यथोपपादं
सम्पूज्य स्वयमाप्लुत्य शुचौ समे देशे देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः
कृत्वा बर्हिरादाय गामुपाकरोतिपितृभ्यस्त्वा पितामहेभ्यस्त्वा
प्रपितामहेभ्यस्त्वा जुष्टामुपाकरोमि इति तूष्णीमित्येके
७
अथैनामद्भिः प्रोक्षति पितृभ्यस्त्वा पितामहेभ्यस्त्वा
प्रपितामहेभ्यस्त्वा जुष्टां
प्रोक्षामि इति । तूष्णीमित्येके ८
तामत्रैव
प्रतीचीनशिरसीं दक्षिणापदीं सञ्ज्ञपन्ति ९
तस्यै
सञ्ज्ञप्ताया अद्भिरभिषेकम् १०
प्राणानाप्याययति तूष्णीम् ११
तूष्णीं
वपामुत्खिद्य हृदयमुद्धरति १२
प्रज्ञातानि चावदानानि १३
तान्येतेष्वेवं
शूलेषूपनीक्ष्ये तस्मिन्नेवाग्नौ श्रपयन्ति १४
पृथङ्मांसं चौदनं
चापूपांश्च श्रपयन्त्यन्यांश्च भक्ष्यविशेषान्त्सर्वं सिद्धं
समानीयायुग्मान् ब्राह्मणान् सुप्रक्षालितपाणिपादानप आचमय्य
सन्दर्भोपकॢप्तेष्वासनेषु द्वौ दैवे
त्रीन्पित्र्ये एकैकमुभयत्र वा
प्राङ्मुखानुपवेशयत्युदङ्मुखान्वा १५
स यदि
प्राङ्मुखान् दक्षिणापवर्गः । यद्युदङ्मुखान् प्रागपवर्गः १६
तेषामेवोदकं
निनीय सप्रणवेन क्षणं ग्राहयति १७
अष्टकाश्राद्धे क्षणः क्रियतामित्यॐ
तथेति प्रतिवचनम् १८
प्राप्नोतु भवान् प्राप्नोतु भवान् इति १९
प्राप्नवानि प्राप्नवानि इतीतरे प्रत्याहुः २०
अथैतान् तिलमिश्रा अपः
प्रतिग्राहयति अमुष्मै स्वधा नमोऽमुष्मै स्वधा नमः इति २१
त्रिस्तिलोदकमेके समामनन्ति पुरोऽन्नं
द्विस्तिलोदकम् दद्यात् भुक्तवत्सु च तृतीयमिति २२
अथैनान् वस्त्रगन्धपुष्पधूपदीपमाल्यैर्यथोपपादं सम्पूज्य पृच्छति
उद्ध्रियतामग्नौ च क्रियतां इतीतरे प्रत्याहुः २३
अपि वा अग्नौ करिष्यामि
इति कुरुष्व इतीतरे प्रत्याहुः २४
अथाभ्यनुज्ञातः
परिधानप्रभृत्याऽग्निमुखात्कृत्वा
शृतायां वपायां पञ्च स्त्रुवाहुतीर्जुहोति याः प्राचीस्सम्भवन्त्याय
उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं
पितुर्दधे स्वधा नमस्स्वाहा २५
अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या दिवा
। दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमस्स्वाहा २६
अन्तर्दध ऋतुभिस्सर्वैरहोरात्रैस्ससन्धिकैः । अर्धमा सैश्च
मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमस्स्वाहा २७
यन्मे माता प्रलुलोभ
चरत्यननुत्रता । तन्मे रेतः पिता वृङ्कां माऽऽभुरन्योऽवपद्यतां स्वधा
नमस्स्वाहा २८
यद्वः क्रव्यादङ्गमदहं लोकाननयन् प्रणयन्
जातवेदाः । तद्वो अहं
पुनरावेशयाम्यरिष्टास्सर्वैरङ्गैस्सम्भवथ
पितरस्स्वधा नमस्स्वाहा इति २९
त्रेधा वपां विच्छिद्यौदुम्बर्या दर्व्यां
जुहोति सो माय पितृमते शुष्मिणे जुहुमो हविः । वाजन्निदं जुषस्व नः
स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा ३०
अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे ।
वैवस्वतेदमद्धि नस्स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा
३१
यदग्ने कव्यवाहन पितॄन्यक्षि ऋतावृधः । प्र देवेभ्यो वह हव्यं
पितृभ्यश्च स्वधा कव्यं देवेभ्यः पितृभ्यस्स्वधा
नमस्स्वाहा इति ३२
अथाष्टकाहोमं जुहोति इयमेव सा या प्रथमा
व्यौच्छत् इति पञ्चदश । ईयुष्टे ये पूर्वतरामपश्यन् इत्येकाम् । संवत्सरस्य
प्रतिमाणमित्येकां तास्सप्तदश ३३
अथापूपमष्टधा विच्छिद्य त्रीण्यवदानानि
वपायाः कल्पेन हुत्वाऽथेतराणि ब्राह्मणेभ्यो
दत्वाऽत्रैतान्यवदानानीडासूने
प्रतिच्छाद्यौदनं मांसं यूषमित्याज्येन समुदायुत्यौदुम्बर्या दर्व्योपघातं
दक्षिणार्धे जुहोति पितृभ्यस्स्वधा नमस्स्वाहा । पितामहेभ्यस्स्वधा
नमस्स्वाहा । प्रपितामहेभ्यस्स्वधा नमस्स्वाहा ।
मातृभ्यस्स्वधा नमस्स्वाहा । पितामहीभ्यस्स्वधा
नमस्स्वाहा । प्रपितामहीभ्यस्स्वधा नमस्स्वाहा ।
मातामहेभ्यस्स्वधा नमस्स्वाहा । मातुः
पितामहेभ्यस्स्वधा नमस्स्वाहा । मातुः
प्रपितामहेभ्यस्स्वधा नमस्स्वाहा ।
मातामहीभ्यस्स्वधा नमस्स्वाहा । मातुः
पितामहीभ्यस्स्वधा नमस्स्वाहा । मातुः प्रपितामहीभ्यस्स्वधा
नमस्स्वाहा । आचार्याय स्वधा नमस्स्वाहा । आचार्यपत्नीभ्यस्स्वधा
नमस्स्वाहा । गुरुभ्यस्स्वधा नमस्स्वाहा । गुरुपत्नीभ्यस्स्वधा
नमस्स्वाहा । सखिभ्यस्स्वधा नमस्स्वाहा । सखिपत्नीभ्यस्स्वधा
नमस्स्वाहा । ज्ञातिभ्यस्स्वधा नमस्स्वाहा ।
ज्ञातिपत्नीभ्यस्स्वधा नमस्स्वाहा ।
अमात्येभ्यस्स्वधा नमस्स्वाहा । अमात्यपत्नीभ्यस्स्वधा नमस्स्वाहा ।
सर्वेभ्यस्स्वधा नमस्स्वाहा । सर्वाभ्यस्स्वधा नमस्स्वाहा इति ३४
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा इति
दक्षिणार्धपूर्वार्धे ३५
मांसोदनं
पात्रेषूद्धृत्य विशेषानुपनिक्षिप्य हुतशेषेन
संसृज्य दक्षिणाग्रेषु दर्भेषु सादयित्वा दक्षिणाग्नैः दर्भैः
प्रतिच्छाद्याभिमृशति पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा
मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां
प्राणापानयोर्जुहोम्यक्षितमसि
मा पितृणां पितामहानां प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोके इति ३६
अथैतानि ब्राह्मणैभ्य उपनिक्षिप्य ब्राह्मणानामङ्गुष्ठेनानखेनानुदिशति
अयुष्मै स्वधा नमोऽमुष्मै स्वधा नमः इति ३७
भुञ्जानान् समीक्षते
प्राणे निविष्टोऽमृतं जुहोमि इति पञ्चभिः । ब्राह्मणि म आत्माऽमृतत्वाय
इत्यात्मानम् ३८
न चात ऊर्ध्वं निरीक्षते ह्णीका हि पितरः इति
विज्ञायते ३९
सर्वै कामैस्तर्पयन् स्वधायुक्तानि
ब्रह्माण्यभिश्रावयन् रक्षोघ्नानि च नैरृतानि च ४०
तृप्त्यन्ते तृप्ताः स्थेत्युक्त्वा तृप्ताः स्म इति
प्रतिवचनम् ४१
तृप्तानप आचमय्याशयेष्वन्नशेषान् सम्प्रकिरति
येऽग्निदग्धा जाता जीवा ये ये त्वदग्धाः कुले मम । भूमौ दत्तेन
तृप्यन्तु तृप्ता यान्तु परां गतिमिति ४२
अथैनान् सङ्क्षालनेन
विषिञ्चन्नवकीर्य स्वदितमिति वाचयित्वा दक्षिणाभिराराधयति ४३
सुवर्णहिरण्यप्राणिवस्त्रलोहभूमिभाण्डैर्गवाश्वाजाविकहस्तिदासपुरुषव्रीहियवमाषतिलदण्डोपानच्छत्रकमण्डलुयानासनशयनोपधानैस्सर्वोपकरणैर्यथोपपादं
सम्पूज्याक्षय्यं वाचयित्वोपसङ्गृह्य स्वधां वाचयित्वोत्थाप्य प्रसाद्य
संसाद्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्यैतेनैव
यथेतमेत्यान्नशेषान्निवेदयते
। यथा ब्रूयुस्तथा कुर्यात्तैस्त्वभ्यनुज्ञेयम् ४४
अथाऽभ्यनुज्ञातो
दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य
तेष्वन्नशेषैः पिण्डं ददाति पितृभ्यस्स्वधा नमः इति
चतुर्विंशतिः ४५
अथैनान् मङ्क्षालनेन त्रिरपसलैः परिषिञ्चति ऊर्जं
वहन्तीरमृतं घृतं मधु पयः कलिलं परिस्नुतं स्वधा स्थ तर्पयत मे
पितॄन् तृप्यत तृप्यत तृप्यत इति ४६
जयप्रभृति
सिद्धमाधेनुवरप्रदानात् ४७
आचमने
चाग्निमुखे चाभिश्रावणे चोपसङ्ग्रहणे च पश्चाद्धोमेषु च
यज्ञोपवीतम् ४८
अथेतरत्र प्राचीनावीतम् ४९
एवमेव श्वोभूते मांसशेषेणैवमेव
श्वोभूते यदि त्र्यहम् ५०
अथ यदि गां न लभते मेषमजं वाऽऽलभते ५१
आरण्येन
वा मांसेन यथोपपन्नेन ५२
खङ्गमृगमहिषमेषवराहपृषतशशरोहितशार्ङ्गतित्तिरिकपोतकपिञ्जलवार्ध्राणसानामक्षय्यं
तिलमधुसंसृष्टम् ५३
तथा मत्स्यस्य शतवलैः क्षीरोदनेन वा सूपोदनेन वा ५४
यद्वा भवत्यामैर्वा मूलफलैः प्रदानमात्रम् ५५
हिरण्येन वा
प्रदानमात्रम् ५६
अपि वा गोग्रासमाहरेत् ५७
अपि
वाऽनूचानेभ्य उदकुम्भानाहरेत् ५८
अपि वा
श्राद्धमन्त्रानधीयीत ५९
अपि
वाऽरण्येऽग्निना कक्षमुपोषेदेषामेकाष्टकेति
६०
न त्वेवानष्टकस्स्यात् ६१
सिकता श्राद्धे पवित्रं यद्यध्यवसनाय
यद्यन्ववकिरणाय ६२
कुशाः कुतपो दूर्वा इति श्राद्धे पवित्रं
यद्यासनाय यदि परिस्तरणाय यद्युत्पवनाय ६३
तिलाश्श्राद्धे पवित्रं यदि
दानाय यदि भोजनाय यद्यपां संसर्जनाय । खङ्गः श्राद्धे पवित्र यदि
मांसं यद्यस्थिमयं पात्रम् ६५
दौहित्रः श्राद्धे पवित्रं यदि
भोक्ता यदि परिवेष्टा यद्यभिश्रावयिता ६६
इत्यष्टकाहोमो
व्याख्यातः ६७
एवमेव मासिश्राद्धमपरपक्षस्यान्यतमेऽहनि
क्रियेत ६८
एतावदेव नाना नात्राष्टकाहोमो भवति ६९
इत्यष्टका
व्याख्याता ७०
इतीमास्सप्त पाकयज्ञसंस्था व्याख्याताः ७१
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने एकादशोऽध्यायः