१०

अथ द्वितीयप्रश्ने दशमोऽध्यायः

अथ प्रत्यवरोहणम् १ वसन्तादौ मधुश्च माधवश्च इति हुत्वा वासन्तिकैरलङ्कारैरलङ्कृत्य वासन्तिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति २
अथ ग्रीष्मादौ शुक्रश्च शुचिश्च इति हुत्वा ग्रैष्मिकैरलङ्कारैरलङ्कृत्य ग्रैष्मिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति ३
अथ वर्षादौ नभश्च नभस्यश्च इति हुत्वा वार्षिकैरलङ्कारैरलङ्कृत्य वार्षिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति ४
अथ शरदादौ इषश्चोर्जश्च इति हुत्वा शारदिकैरलङ्कारैरलङ्कृत्य शारदिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति ५ अथ हेमन्तादौ सहश्च सहस्यश्च इति हुत्वा हैमन्तिकैरलङ्कारैरलङ्कृत्य हैमन्तिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति ६
अथ शिशिरादौ तपश्च तपस्यश्च इति हुत्वा शैशिरिकैरलङ्कारैरलङ्कृत्य शैशिरिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् प्राश्नाति ७ अथाधिमासे संसर्पोऽस्यंहस्पत्याय त्वा इति हुत्वा चैत्रिकैरलङ्कारैरलङ्कृत्य चैत्रिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति ८
स एष आघारवान् वा स्यादाग्निहोत्रिको वाऽप्यापूर्विको वा ९
प्रत्यवरोहणं व्याख्यातम् १०

इति बोधायनीये गृह्यसूत्रे द्वितीयप्रश्ने दशमोऽध्यायः