०९

अथ द्वितीयप्रश्ने नवमोऽध्यायः

अथ वैश्वदेवं हुत्वाऽतिथिमाकाक्षेदागोर्दोहकालम् १
अग्रं वोद्धृत्य दद्यात् २
विज्ञायते यज्ञो वा एष पञ्चमो यदतिथिः ३
जघनेन गार्हपत्ययुपविश्यौपासनस्य वा अधीहि भो इति गार्हपत्यमुक्त्वा प्राणायामैस्त्रिरायभ्य सावित्रीं सहस्रकृत्वा आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशावरम् ४
वेदादयश्छन्दांसि कूश्माण्डानि चाधीयीत अग्निमीले पुरोहितम् इति ऋग्वेदस्य इषे त्वोर्जे त्वा इति यजुर्वेदस्य अग्न आयाहि वीतये इति सामवेदस्य शं नो देवीरभिष्टये इत्यथर्ववेदस्य अग्निर्मूर्धा भुवः इति छन्दांसि यद्देवा देवहेलनमिति कूश्माण्ड्यः ५
यदधीते स ब्रह्मयज्ञो यज्जुहोति स देवयज्ञो यत्पितृभ्यस्स्वधा करोति स पितृयज्ञो यद्भूतेभ्यो बलिं हरति स भूतयज्ञो यद्ब्राह्मणेभ्योऽन्नं ददाति स मनुष्ययज्ञ इति ६
एते पञ्च महायज्ञाः सततं सुप्रयुक्ता नयन्ति परमां गतिम् ७
एतेभ्यो यस्य पञ्चभ्यो यज्ञ एकोऽपि हीयते मनस्वत्याहुतिस्तत्र प्रायश्चित्तं विधीयते ८
द्व्यहं त्र्यहं वाऽपि प्रमादादकृतेषु तु तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेत् ९
दशाहं द्वादशाहं वा विच्छिन्नेषु तु सर्वशः चतस्रोऽभ्यावर्तिनीर्हुत्वा कार्यस्तान्तुमतश्चरुः १०
यस्य स्त्री वाऽनुपेतो वा गृहेष्वेतान् बलीन् हरेत् कूश्माण्ड्यस्तत्र होतव्यो हुत्वा यज्ञसमृद्धये ११
प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते पञ्चानां महतामेषां स यज्ञैस्सह गच्छति १२
प्रवासे कुरुते चैनान्यदन्नमुपपद्यते न चेदुत्पद्यते चान्नमद्भिरेनान् समापयेत् १३
अद्भिरेव व्रतं कुर्याद्यथालाभमनुव्रतम् देवानां देवयज्ञेन द्विजा गच्छन्ति साम्यताम् १४
पितॄणां पितृयज्ञेन भूतयज्ञेन भूतिनः मनोर्मनुष्ययज्ञेन ब्रह्मयज्ञेन ब्रह्मणः १५
एतासां साम्यतां गत्वा देवतानां शतं समाः आनन्दं ब्रह्म गच्छन्ति ध्रुवं शाश्वतमव्ययमिति १६ अथास्मा अतिथिर्भवति गुरोस्समानवृत्तिर्वैखानसो वा गृहस्थो वानप्रस्थः परिव्राजको गतश्रीस्स्नातको राजा वा धर्मयुक्तः १७ तेषामभ्युत्थायासनं पाद्यमर्हणमर्घ्यं वा प्रयुञ्जीत १८ यास्तत्रौषधयस्सन्ति ता देयाः १९
अन्यां वा प्रक्रियां प्रकुर्वीत २०
सर्वेभ्योऽभ्यागतेभ्य आ श्वचाण्डालेभ्यस्स्वागतं कार्यम् २१
ओषधिविभागस्तु बिभववता कार्योऽभावे भूमिरुदकं तृणानि कल्याणी वागिति २२ एतानि वै सतोऽगारे न क्षीयन्ते कदाचन इति तानेतान् परं ब्रह्मेत्याचक्षते २३
तेषां ग्रहणे तु द्वादशरात्रमक्षारलवणभोजनमधश्शयनं ब्रह्मचर्यम् । त्रिरात्रोपोषित उत्क्षेपणौ परौ गृह्णीयात् २५
बलिहरणं व्याख्यातम् २६

इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने नवमोऽध्यायः