अथ द्वितीयप्रश्ने सप्तमोऽध्यायः
अथ शूलगवस्संवत्सरे संवत्सरे मार्गशीर्ष्यां
पौर्णमास्यां क्रियेत १
अपि वाऽऽर्द्रायाम् २
गोषु वोपतप्तासु गोषु
गुप्तासु ३
अरण्येऽग्निमुपसमाधाय सम्परिस्तीर्या प्रणीताभ्यः
कृत्वा बर्हिरादाय गामुपाकरोति ईशानाय त्वा जुष्टामुपाकरोमि इति ४
तूष्णीमित्येके ५
अथैनामद्भिः प्रोक्षति ईशानाय त्वा जुष्टां
प्रोक्षामि इति ६
तूष्णीमित्येके ७
तामत्रैव
प्रतीचीनशिरसीमुदीचीनपदीं
सञ्ज्ञपयन्ति ८
तस्यै सञ्ज्ञप्ताया अद्भिरभिषेकम् ९
प्राणानाप्याययति तूष्णीम् १०
तूष्णीं
वपामुत्स्विद्य हृदयमुद्धरति ११
प्रज्ञातानि चावदानानि १२
तान्येष्वेव शूलेषूपनीक्ष्य तस्मिन्नेवाग्नौ श्रपयन्ति १३
अथैतानि
शूलेभ्य उपनीक्ष्य पुनः कुम्भ्यां श्रपयन्ति १४
अथैतान्यभिघारितान्युद्वास्य
प्रतिष्ठितमभिघारयति १५
परिधानप्रभृत्याऽग्निमुखात् कृत्वा
दैवतमावाहयति आ त्वा वहन्तु
हरयस्सचेतसश्श्वेतैरश्वैस्सहकेतुमद्भिः
। वाताजिरैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वोमिति १६
अथ स्नुवेणोपस्तीर्णामभिघारितां वपां जुहोति सहस्राणि सहस्रशः इति
पुरोनुवाक्यामनूच्य ईशानं त्वा भुवनानामभिश्रियमिति याज्यया जुहोति १७
अत्रैतान्यवदानानीडासूने प्रच्छौदनं मासं यूषमित्याज्येन
समुदायुत्य मेक्षणेनोपघातं पूर्वार्धे जुहोति भवाय देवाय
स्वाहा शर्वाय देवाय स्वाहा ईशानाय देवाय स्वाहा पशुपतये देवाय स्वाहा
रुद्राय देवाय स्वाहा उग्राय देवाय स्वाहा मीमाय देवाय स्वाहा महते
देवाय स्वाहा इति १८
अथ मध्ये जुहोतिभवस्य देवस्य पत्न्यै स्वाहा
शर्वस्य देवस्य पत्न्यै स्वाहा ईशानस्य देवस्य पत्न्यै स्वाहा
पशुपतेर्देवस्य पत्न्यै स्वाहा रुद्रस्य देवस्य पत्न्यै स्वाहा
उग्रस्य देवस्य पत्न्यै स्वाहा महतो देवस्य पत्न्यै स्वाहा इति १९
अथापरार्धे जुहोति भवस्य देवस्य सुताय स्वाहा शर्वस्य देवस्य
सुताय स्वाहा ईशानस्य देवस्य सुताय स्वाहा पशुपतेर्देवस्य सुताय
स्वाहा रुद्रस्य देवस्य सुताय स्वाहा उग्रस्य देवस्य सुताय स्वाहा
मीमस्य देवस्य सुताय स्वाहा महतो देवस्य सुताय स्वाहा इति १९
अथाज्याहुतीरुपजुहोतिनमस्ते रुद्र मन्यवे
इत्याऽन्तादनुवाकस्य । स्विष्टकृत्प्रभृति
सिद्धमाधेनुवरप्रदानात् २२
अथाग्रेणाग्निमर्कपर्णेषु हुतशेषं
निदधातियो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो
विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु इति २३
स्थालीसङ्क्षालनमाज्यशेषमुदकशेषं च पात्र्यां
समानीय वेतसशाखयावोक्षन् सर्वतः त्रिः प्रदक्षिणं गाः पर्येतिआ गावो
अग्मन्नुत भद्यमक्रन् इत्येतेन सूक्तेन २४
महत्स्वस्त्ययनमित्याचक्षते
२५
अथ यदि गां न लभते मेषमजं वाऽऽलभते २६
ईशानाय स्थालीपाकं वा श्रपयन्ति
तस्मादेतत्सर्वं करोति यद्गवा कार्यम् २७
शूलगवो व्याख्यातः २८
एवमेवाष्टम्यां प्रदोषे क्रियेतैतावदेव नाना २९
नात्रोपाकरणं पशोः ३०
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने सप्तमोऽध्यायः