अथ द्वितीयप्रश्ने षष्ठोऽध्यायः
वेदमधीत्य
स्नात्यन्नित्युक्तं समावर्तनम् १
मन्त्रब्राह्मणं
वेद इत्याचक्षते २
मन्त्रब्राह्मणयोर्वेदनामधेयम् ३
मन्त्रब्राह्मणे
यज्ञस्य प्रमाणम् ४
मन्त्रब्राह्मणे अधीत्य चीर्णेषु वा
व्रतेषु ५
एतावदेव नाना ६
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्
कृत्वा पालाशीं समिधमाज्येनाक्त्वा मध्यन्दिनेऽभ्यादधाति ७
तत्पुरस्ताद्व्याख्यातम् ८
अथ केशश्मश्रुलोमनखावापनेनैव प्रतिपद्यते
सिद्धमाच्छत्रादानात्कृत्वा पक्वाज्जुहोति
आवहन्ती वितन्वाना । कुर्वाणा चीरमात्मनः । वासांसि मम गावश्च । अन्नपाने च
सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिस्सह स्वाहा इति ९
अथाज्याहुतीरुपजुहोति अमायन्तु
ब्रह्मचारिणस्स्वाहा । यशोजनेऽसानि स्वाहा ।
श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग
प्रविश स्वाहा इति १०
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्
११
अथाग्रेणाग्निं बिल्वशाखायां हुतशेषं निदधाति तस्मिन् सहस्रशाखे ।
निभगाहं त्वयि मृजे स्वाहा इति १२
अथ पक्वादुपादाय प्राश्नति यथाऽऽपः
प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणःस्र ।
धातरायन्तु सर्वतस्स्वाहा इति १३
प्राश्याप आचम्योरः
प्रत्यात्मानं प्रत्यभिमृशते प्रतिवेशोसि प्र मा पाहि प्र मा
पद्यस्व इति १४
सोऽत्रैवास्ते आनक्षत्राणामुदयात् १५
अथोदितेषु
नक्षत्रेषूपनिष्क्रम्य दिश उपतिष्ठत इति सिद्धमत ऊर्ध्वम्
१६
यस्मिन्नग्नावुपनयति तस्मिन् ब्रह्मचर्यं तस्मिन् व्रतचर्यं तस्मिन्
समावर्तनं तस्मित् पाणिग्रहणं तस्मिन् गृह्यानि कर्माणि क्रियन्ते १७
तस्मिन् काम्यानि तस्मिन् प्रजासंस्कारा इत्येके १८
स एष उपनयनप्रभृति
व्याहृतीभिस्समिद्धिर्हूयत आ समावर्तनात् १९
समावर्तनप्रभृत्याज्येन
व्याहृतीभिर्हूयत आ पाणिग्रहणात् २०
पाणिग्रहणप्रभृति
व्रीहिभिर्यवैर्वा हस्तेनैते आहुतीर्जुहोति अग्नये
स्वाहा प्रजापतये स्वाहा इति सायम् । सूर्याय स्वाहा प्रजापतये
स्वाहा प्रातरपि २१
अग्निहोत्रहविषामन्यतमेन जुहुयात् २२
पर्वणि
पर्वणि चाग्नेयस्थालीपाकः २३
स एष आघारवान् स्यादाग्निहोत्रिको
वाऽप्यापूर्विको वा २४
तेन सर्पिष्कता विद्यावन्तं ब्राह्मणं
भोजयेत् २५
योऽस्यापचिततमस्तस्मा ऋषभं दद्यादित्येके २६
अथास्यानुगतस्य
या प्रकृतिस्तत आहरणम् २७
उपवासोऽनुगतेऽन्यतरस्य भार्यायाः पत्युर्वा २८
अपि वैकां जुहुयात्अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि
। अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजं स्वाहा इति २९
आहुतो
व्याख्यातः ३०
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने षष्ठोऽध्यायः