अथ द्वितीयप्रश्ने पञ्चमोऽध्यायः
अथाहुतः १
गर्भाष्टमेषु ब्राह्मणमुपनयीत गर्भैकादशेषु राजन्यं
गभद्वादशेषु वैश्यम् २
आषोडशात् ब्राह्मणस्यानात्यय
इति ३
एवमेवेतरयोः द्वाविंशतिश्च चतुर्विंशतिश्च ४
अथापि काम्यानि
भवन्तिसप्तमे ब्रह्मवर्चसकाममष्टम आयुष्कामं नवमे तेजस्कामं
दशमेऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकामं त्रयोदशे मेधाकामं
चतुर्दशे पुष्टिकामं पञ्चदशे भ्रातृव्यवन्तं षोडशे सर्वकाममिति ५
वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यं वर्षासु
रथकारमिति । सर्वानेव वा वसन्ते ६
ब्राह्मणानन्नेन
परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा कुमारं
भोजयित्वा तस्य चौलवत्तूष्णीं केशानोष्य स्नातं शुचिवाससं
बद्धशिखं यज्ञोपवीतं प्रतिमुञ्चन् वाचयति यज्ञोपवीतं परमं पवित्रं
प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रियं प्रतिमुञ्च
शुभ्रं यज्ञोपवीतं बलमस्तु तेजः इति ७
यज्ञोपवीतिनमप आचमय्याथ
देवयजनमुदानयति ८
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा पालाशीं
समिधमाज्येनाक्त्वाऽभ्याधापयन् वाचयति आयुर्दा देव जरसं गृणानो
घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिबन्नमृतं चारु गव्यं
पितेव पुत्रं जरसे नयेमं स्वाहा इति ९
अथैनमुत्थाप्योत्तरेणाग्निं
दक्षिणेन पदा अश्मानमास्थापयतिआतिष्ठेममश्मानमश्मेव त्वं
स्थिरो भव । अभितिष्ठ पृतन्यतस्सहस्व पृतनायतः इति १०
अथैनं तिष्ये
वासस्सद्यः कृत्तोतं परिधापयन् वाचयति या अकृन्तन्नवयन् या अतन्वत याश्च
देवीरन्तानभितोऽददन्त । तास्त्वदेवीर्जरसा संव्ययन्त्वायुष्मानिदं
परिधत्स्व वासः इति ११
परिहितमनुमन्त्रयते परिधत्त धत्त
वाससैनं शतायुषं कृणुहि दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास
एतत्सोमाय राज्ञे परिधातवा उ । जरां गच्छासी परिधत्स्व वासो भवा
कृष्टीनामभिशस्तिपावा । शतं च जीव शरदस्सुवर्चा रायश्च पोषमुप
संव्ययस्व । परीदं वासो अधि धास्खस्तयेऽभूरापीनामभिशस्तिपावा । शतं
च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन् इति १२
अथैनं मौञ्जीं
मेखलां त्रिवृतां त्रिः प्रदक्षिणं परिव्ययन् वाचयतिमौञ्जी
ब्राह्मणस्य । ज्यामौर्बी राजन्यस्य । आवीसूत्रं वैश्यस्य ।
सर्वेषामेव वा मौञ्जीम् । इयं दुरुक्तात्परिबाधमाना शर्म
वरूथं पुनती न आगात् । प्राणापानाभ्यां वलमाभरन्ती प्रिया देवानां
सुभगा मेखलेयम् इति १३
परिवीतामनुमन्त्रयते क्षितस्य गौप्त्री तपसः
परस्पीघ्नती रक्षस्सहमाना अरातीः । सा नस्समन्तमनु परीहि
भद्रया भर्तारस्ते मेखले मा रिषाम इति १४
ग्रन्थिं करोति
प्राणानां ग्रन्थिरसि स मा बिस्त्रंसः इति नाभिदेशे १५
अथास्मा
अजिनं प्रतिमुञ्चन् वाचयति कृष्णाजिनं ब्राह्मणस्य । रौरवं राजन्यस्य ।
वस्ताजिनं वैश्यस्य । सर्वेषां वा कृष्णाजिनम् । मित्रस्य
चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थविरं समिद्धम् ।
अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं दधेऽहम् इति १६
अथास्मै
दण्डं प्रयच्छति पालाशं बैल्वं वा ब्राह्मणस्य । नैयग्रोधं
स्कन्धजमवाङ्ग्रं रौहीतकं वा राजन्यस्य ।
वादरमौदुम्बरं वा वैश्यस्य । सर्वेषां वा वार्क्षम् १७
सोमोसि
सोमपं मा कुरु इति पालाशम् १८
ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वा इति
बैल्वम् १९
ओजोस्योजो मयि धेहि इति नैयग्रोधम् २०
बलमसि बलं मयि धेहि इति
रौहीतकम् २१
पुष्टिरसि पुष्टिं मयि धेहि इति बादरम् २२
ऊर्गस्यूर्जं
मयि धेहि इत्यौदुम्बरम् २३
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं
गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम्
इति वार्क्षम् २४
कोनामास्यसौ नामास्मि इति शाठ्यायनकम् २५
अथैनं
दक्षिणे हस्ते गह्णाति यस्मिन् भूतं च भव्यं च सर्वे
लोकास्समाहिताः । तेन गृह्णामि त्वामहं मह्यं गृह्णामि
त्वामहं प्रजापतिना त्वा मह्यं गृह्णाम्यसौ इति २६
अथैनं देवताभ्यः
परिददाति देवेभ्यस्त्वा परिददामि विश्वदेवेभ्यस्त्वा
परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा
देवेभ्यः परिददामि सर्वाभ्यस्त्वा देवताभ्यः परिददाम्यसौ इति २७
अथैनमुपनयति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णो हृस्ताभ्यामुपनयेऽसौ इति २८
अथ कुमारः
पक्वाज्जुहोतियश्छन्दसामृषभो
विश्वरूपश्छन्दोभ्योऽध्यमृतात्सम्बभूव ।
समेन्द्रो मेधया स्पृणोत्वमृतस्य देव धारणो भूयासं स्वाहा
इति २९
अथाज्याहुतीरुपजुहोति क्षेत्रियै त्वा निरृत्यै त्वा इति
षड्भिरनुच्छन्दसम् ६०
एवमेव ब्रह्मसूक्तेन हुत्वा ब्रह्मजज्ञानम्
इति षड्भिः ३१
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३२
अग्रेणाग्निं
पलाशपर्णेषु हुतशेषं निदधाति नमो अस्तु नीलग्नी वाय इति ३३
अत्र
सावित्रिव्रतम् ३४
अथ पालाशीश्चतस्रस्समिध
आर्द्रास्सपलाशास्सप्रारोहाः
प्रादेशमात्रीरपरिशुष्काग्रा घृतान्वक्ता
अभ्याधापयन् वाचयति याज्ञिकानां वा वृक्षाणां अन्यतमस्य ३५
अग्ने व्रतपते
सावित्रं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा ३६
वायो व्रतपत
आदित्य व्रतमते व्रतानां व्रतपते सावित्रं व्रतं चरिष्यामि तच्छकेयं
तन्मे राध्यतां स्वाहा इति ३७
अपरेणाग्निमुदगग्रं कूर्चं निधाय
तस्मिन् प्राङ्मुख आचार्य उपविशतिराष्ट्रभृदस्याचार्यासन्दी
मा त्वद्योषम् इति ३८
तस्याग्रेण कुमारो दर्भेषु प्रत्यङ्मुख उपविश्य
पादावन्वारभ्याहसावित्रीं भो अनुब्रूहि इति ३९
तस्मा अन्वाहोमिति
प्रतिपद्यते तत्सवितुर्वरेण्यम् इत्येतां पच्छोऽर्धर्चशस्ततस्समस्तां
व्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथाऽर्धर्चयोरुत्तमां
कृत्स्नायामिति ४०
अथ कुमारः पक्वादुपादाय प्राश्नाति
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् ।
ब्रह्मणः कोशोऽसे मेधया पिहितः । श्रुतं मे गोपाय इति ४१
अथ हैके
प्रक्सावित्र्याः प्राश्नाति ब्रह्म वा अन्नमिति
वदन्तः ४२
तदु तथा न कुर्यान्नानुक्तायां सावित्र्यां
प्राश्नीयादित्यनूक्तायामनूक्तायां सावित्र्यां
प्राश्नीयादिति शाठ्यायनकम् ४३
अथाप उपस्पृश्य
ज्योतिष्मत्याऽऽदित्यमुपतिष्ठते उद्वयं तमसस्परि इति ४४
अथैनं संशास्ति ब्रह्मचार्यस्यपोशान कर्म कुरु मा दिवा सुषुप्थाः समिध
आधेहि भैक्षाचर्यं चर सदाऽरण्यात् समिध आहरोदकुम्भं
चाहराचार्याधीनो भव वेदमधीष्व इति ४५
स
एवमेवैतत् सर्वं करोति ४६
अथास्मा अरिक्तं पात्रं प्रयच्छन्नाह
मातरमेवाग्रे भिक्षस्व इति ४७
स मातरमेवाग्रे भिक्षेत ४८
भवति भिक्षां
देहीति ब्राह्मणो भिक्षेत ४९
भिक्षां भवति देहीति राजन्यः ५०
देहि
भिक्षां भवतीति वैश्यः ५१
तत्समाहृत्याचार्याय प्राह
भैक्षमिदम् इति ५२
तत् सुभैक्षम् इतीतरः प्रतिगृह्णाति ५३
उत्तरेणाग्निं द्वे स्त्रीप्रतिकृती कृत्य गन्धैर्माल्येन चासङ्कृत्य
त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा श्रद्धामेधे
प्रियेतामिति ५४
त्र्यहमेतमग्निं धारयन्ति क्षारलवणवर्जमधश्शय्या च ५५
एतस्मिन्नेवाग्नौ व्याहृतीभिस्सायम्प्रातस्समिधोऽभ्यादध्यात् ५६
एवमन्यस्मिन्नपि सदा ५७
अथैनं प्रदक्षिणमग्निं
परिसमूहति जुषस्व नस्समिधमग्ने अद्यशोचा बृहद्यजनं
धूममृण्वन् । उदश्पृश दिव्यं सा नु स्तूपैस्सं
रश्मिभिस्ततनस्सूर्यस्य इति ५८
अथैनं
प्रदक्षिणमग्निं परिषिञ्चति अदितेऽनुमन्यस्व इति
दक्षिणतः प्राचीनम् । अनुमतेऽनुमन्मस्व इति पश्चादुदीचीनम् ।
सरस्वतेऽनुमन्यस्व इत्युत्तरतः प्राचीनम् ।
देवसवितः प्रसुव इति समन्तं प्रदक्षिणम् । समन्तमेव वा तूष्णीम् ५९
तस्मिन् व्याहृतीभिस्सायं प्रातस्समिधोऽभ्यादधाति भूस्स्वाहा भुवस्वाहा
सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इति ६०
तथैव परिसमूह्य तथैव परिषिञ्चति
अन्वमंस्थाः प्रासावीः इति मन्वान्तान् सन्नमयति ६१
अथैनमुपतिष्ठते
यत्ते अग्ने तेजः इति तिसृभिः मयि मेधां मयि प्रजामिति तिसृभिः
षोढा विहितो वै पुरुषः । इत्येतस्माद्ब्राह्मणात् ६२
अथ तिसृषु
व्युष्टास्वेतमग्निमादाय तां दिशं यन्ति यत्रास्य पलाशस्स्पष्टो
भवति ६३
तं प्रदक्षिणं परिसमूहति सुश्रवस्सुश्रवसं मा कुरु यथा त्वं
सुश्रवस्सुश्रवा अस्येवमहं सुश्रवस्सुश्रवा भूयासं यथा त्वं
सुश्रवस्सुश्रवो देवानां निधिगोपोस्येवमहं ब्राह्मणानां
ब्रह्मणो निधिगोपो भूयासमिति ६४
तस्याग्रेण उत्तरेण वाऽग्निमुपसमाधाय
सम्परिस्तीर्याऽथाव्रत्यप्रायश्चित्ते जुहोति यन्म आत्मनो
मिन्दाऽभूत् पुनरग्निश्चक्षुरदात् । इति द्वाभ्याम्
६५
अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशाः सप्रारोहाः
प्रादेशमात्रीरपरिशुष्काग्रा
घृतान्वक्ता अभ्याधापयन्वाचयति याज्ञिकानां वा
वृक्षाणामन्यतमस्य ६६
अग्ने व्रतपते सावित्रं व्रतमचारिषं तदशकं
तन्मे राधि स्वाहा ६७
वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते
सावित्रं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा इति ६८
तथैव
सुश्रवसमभ्यर्च्य त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो
वाचयित्वा ६९
अत्रैके दण्डमजिनं मेखलां वासश्चातिसृजन्ति ७०
अन्यान्यादायास्य वास आदत्ते यस्य ते प्रथमबास्यं हरामस्तं त्वा विश्वे
अनुमदनतु देवाः । तं त्वा भ्रातरस्सुहृदो वर्धमानमनुजायन्तां
बहवस्सुजातमिति ७१
अथाधोनाभ्युपरि जान्वाच्छाद्य
दण्डमजिनं मेखलां च धारयन् श्राद्धसूतकमैथुनमधुमांसानि वर्जयन्
भैक्षाहारोऽधश्शायी चाचार्यस्य गृहानेतीति विज्ञायते आचार्यो वै
ब्रह्मेति ७२
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने पञ्चमोऽध्यायः