०४

अथ द्वितीयप्रश्ने चतुर्थोध्यायः

संवत्सरे चूडाकर्म त्रिषु वा संवत्सरेषु १
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा २
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोतिये केशिनः । इति पुरोनुवाक्यामनूच्य नतें ब्रह्मणः । इति याज्यया जुहोति ३
अथाज्याहुतीरुपजुहोतिआरोह प्रोष्ठं विषहस्व शत्रून् । इत्यान्तादनुवाकस्य ४
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५ अथाग्रेणाग्निमुदुम्बरपर्णेषु हुतशेषं निदधातिनमो हिरण्यबाहवे इति ६
अपरेणाग्निमुभयीरपस्सन्निषिञ्चति ७ उष्णासु शीता आनयतिउष्णेन वायवुदकेनेह्यदितिः केशान् वपतु । इति ८ ताभिरस्य शिर उनत्तिआप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे । इति ९
ऊर्ध्वाग्रं बर्हिरनूछ्रयतिओषधे त्रायस्वैनम् । इति १० क्षुरमभिमन्त्रयतेज्योक्च सूर्यं दृशे इति ११
अथैनं निर्यञ्चं निदधातिस्वधिते मैनं हिंसीः इति १२
अथास्य केशान्वपतियेनावपत्सविता क्षूरेण । इति १३
प्रवपतोऽनुमन्त्रयतेमा ते केशाननुगाद्वर्च एतत् इति १४
अथैनान् समुच्चित्य दर्भस्तम्बे निदधाति तेभ्यो निधानं बहुधा व्यैच्छन् । इति १५
अथैनमुष्णोदकेनाप्लावयति बलं ते बाहुवोस्सविता दधातु इति १६ अथैनमेकशिखस्त्रिशिखः पञ्चशिखो वा यथैवैषां कुलधर्मस्स्यात् १७ यथर्षि शिखां निदधातीत्येके १८
अथैनं स्नाप्याच्छाद्यालङ्कृत्य त्रिवृताऽन्नेन ब्राह्माणान् सम्पूज्याशिषो वाचयति १९
इति प्रहुतो व्याख्यातः २०

इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने चतुर्थोऽध्यायः