अथ द्वितीयप्रश्ने तृतीयोऽध्यायः
षष्ठे
मास्यन्नप्राशनम् १
ब्राह्मणानन्नेन परिविष्य
पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा २
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्
कृत्वा अन्नसूक्तेन जुहोतिअहमस्मि प्रथमजा ऋतस्य इत्यष्टाभिरनुच्छन्दसम्
३
जयप्रभृति सिद्धमाधेनुवरप्रदानात् ४
अथौदनं दध्ना मधुना घृतेनाद्भिरिति
समुदायुत्य हिरण्येनौषधस्य कुमारं प्राशयतिया जाता ओषधयः इति
षड्भिरनुच्छन्दसम् ५
भूर्भुवस्सुवरपां त्वौषधीनां
रसं प्राशयामि शिवास्त आप ओषधयस्सन्त्वसौ इति सर्वास्वनुषजति ६
इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने तृतीयोऽध्यायः