०२

अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः

चतुर्थे मास्युपनिष्क्रमणम् १
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्तिऋद्धिमिति वाचयित्वा २
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा स्वस्त्यात्रेयं होति ३
स्वस्ति नो मिमीतामश्विना भगस्स्वस्ति देव्यदितिरनर्णवः । स्वस्ति पूषा असुरो दधातु नः स्वास्ति द्यावापृथिवी सुकेतुना ४
स्वस्तये वायुमुपब्रवामहै सोमं स्वास्ति भुवनस्य यस्पतिः । बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आचित्यासो भवन्तु नः ५
विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निस्स्वस्तये । देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ६
स्वस्ति मित्राववरुणा स्वस्ति पथ्ये रेवति । स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ७
स्वति पन्थामनुचरेम सूर्याचन्द्रमसाविव । पुनर्ददताऽघ्नता जानता सङ्गमेमहि ८
स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं महद्भूतं वायसं देवतानाम् । असुरघ्नीमिन्द्रसखं समत्सु बृहद्यशो नावमिवारुहेम ९ अंहोमुचमाङ्गिरसं गयं च स्वस्त्यात्रेयं मनसा च तार्क्ष्यम् । प्रयतपाणिश्शरणं प्रपद्य स्वस्ति सम्बाधेष्वभयं नो अस्तु १० स्वस्ति न इन्द्रो वृद्धश्रवास्स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिस्स्वस्ति नो बृहस्पतिर्दधातु इत्यष्टाभिरनुच्छन्दसम् ११
जयप्रभृति सिद्धमाधेनुवरप्रदानात् १२
अथोपनिष्क्रम्य बाह्यानि चित्रियाण्यभ्यर्च्य त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा प्रदक्षिणीकृत्य स्वान् गृहानानयति १३

इति बोधायनीये गृह्यसूत्रे द्वितीयप्रश्ने द्वितीयोऽध्यायः