०१

अथ द्वितीयप्रश्ने प्रथमोऽध्यायः

अथ प्रहुतः १
जातं कुमारमभिमन्त्रयतेअद्भ्यस्सम्भूतः इत्येतेनानुवाकेन २
अथैनं स्नपयतिक्षेत्रियै त्वा निरृत्यै त्वा इति षड्भिरनुच्छन्दसम् ३
अथैनं स्वोपस्थं आदधातिअङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि सञ्जीव शरदश्शतम् इति ४ अथैनं मूÞर्यभिजिघ्रतिअश्मा भव परशुर्भव हिरण्यमस्तृतं भव । पशूनां त्वा हिङ्कारेणाभिजिघ्राम्यसौ इति नक्षत्रनामधेयेन ५
अथास्य दक्षिणे कर्णे जपति अग्निरायुष्मान् इति पञ्चभिः पर्यायैः ६
अथैनं दधिमधुघृतमिति समुदायुत्य हिरण्येन प्राशयतिप्राणो रक्षति विश्वमेजत् इत्येतेनानुवाकेन प्रत्यृचम् ७
अतिशिष्टं गोपदे निनयति व्याहृतीभिः ८
अथैनं मातुरुपस्थ आदधातिसीद त्वं मातुरस्या उपस्थे इति चतसृभिस्सहंसाभिः ९
स्तनमभिमन्त्रयतेयस्ते स्तनश्शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्यणि । यो रत्नधा वसुविद्यस्सुदत्रस्सरस्वति तमिह धातवेकः इति १०
धयन्तमनुमन्त्रयतेद्यौस्ते पृष्ठं रक्षतु वायुरूरू अश्विनौ च स्तनं धयन्तं सविताऽभिरक्षतु । आवाससः परिघानाद्बृहस्पतिर्विश्वेदेवा अभिरक्षन्तु पश्चात् इति ११
अथास्योदकुम्भमुच्छिरसि निदधातिआपस्सुप्तेषु जाग्रत रक्षांसि नीरितो नुदध्वम् इति १२
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोतिहरिं हरन्तमनुयन्ति देवाः इति पुरोऽनुवाक्यामनूच्य मा छिदो मृत्यो मा वधीः इति याज्यया जुहोति १३ अथाज्याहुतीरुपजुहोतिसद्यश्चकमानाय इत्यान्तादनुवाकस्य १४
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १५ अथानोयुगं रथयुगं वा स्नाप्याच्छाद्यालङ्कृत्य अग्रेणाग्निमुद्धृत्य तस्याग्रेणाश्वत्थपर्णेषु हुतशेषं निदधातिनम आव्याधिनीभ्यः इति १६
अथास्तमित आदित्ये गौरसर्षपान् फलीकरणमिश्रान् अञ्जलिना जुहोतिकृणुष्व पाजः प्रसितिं न पृथ्वीम् इत्येतेनानुवाकेन प्रत्यृचम् १७
अथौदनम् तिलसक्तुर्भिघृतेनेति समुदायुत्य गोष्ठेऽश्वत्थपर्णेषु हुतशेषं निदधातिअघोराय महाघोराय नमो नमः इति १८
अथातिशिष्टं सर्वा दिशस्सम्प्रकिरन्तिआवेशिना व्यश्रुमुखी कुतूहलिन्येकस्तनी जृम्भणी स्तम्भनी मोहनी च । कृष्णा विशाखा विमला ब्रह्मरात्री भ्रातृव्यसङ्ख्येषु पतन्त्यमोघाः । ताभ्यो वै मातृभ्यो नमो नमः इति १९
स एवमेव फलीकरणहोमप्रभृति सायम्प्रातर्दशरात्रं करोति २० नानुत्थितायां सूतिकायां भोज्यान्नता २१
दशम्यामुत्थानम् २२
दशम्यां द्वादश्यां वा नामकरणम् २३
प्राजापत्येन सूक्तेन हुत्वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयन्नामास्मै दधाति २४
द्व्यक्षरं चतुरक्षरं षडक्षरमष्टाक्षरं वा २५
घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तम् २६ अपि वा यस्मिन् स्वित्युपसर्गस्स्यात्तद्धि प्रतिष्ठितमिति विज्ञायते २७ ऋष्यणूकं देवताणूकं वा २८
यथैवैषां पूर्वपुरुषाणां नामानि स्युः २९ अयुगक्षरं कुमार्याः ३०
अमुष्मै स्वस्तीति ३१

इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने प्रथमोऽध्यायः