११

प्रथमप्रश्ने एकादशोऽध्यायः

यथैतद्धुते बलिहरणम् १
विष्णवे बलिरष्टमे मासि पूर्वपक्षस्य सप्तम्यां द्वादश्यां रोहिण्यां श्रोणायां वा २ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ३
अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं दैवतमावाहयति ॐ भूः पुरुषमावाहयामि ॐ भुवः पुरुषमावाहयामि ॐ सुवः पुरुषमावाहयामि ॐ भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य ४ परिधानप्रभृत्याऽग्निमुखात्कृत्वा दैवतमर्चयति ५
आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा ६ अथाद्भिस्तर्पयति केशवं तर्पयामि नारायणं माघवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं तर्पयामि इति ७ एतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नमः इत्यभ्यर्च्य ८
अथ विष्णव आहुतीर्जुहोति विष्णोर्नु कम् तदस्य प्रियम् प्रतद्विष्णुः परो मात्रया विचक्रमे त्रिर्देवः इति ९
जयप्रभृति सिद्धमाधेनुवरप्रदानात् १०
अथ गुडपायसं घृतमिश्रमन्नं निवेदयति अमुष्मै स्वाहा नमोऽमुष्मै स्वाहा नमः इति द्वादशभिर्यथालिङ्गम् ११ वैष्णवीभिः ऋग्यजुस्सामाथर्वभिस्स्तोत्रैस्स्तुतिभिस्स्तुवन्ति १२
व्याहृतीभिः पुरुषमुद्वासयामीत्युद्वास्यान्नशेषं पत्नीं प्राशयेन् १३
पुमानस्यै जायत इति विज्ञायते १४

इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने एकादशोऽध्यायः