अथ प्रथमप्रश्ने दशमोऽध्यायः
प्रथमगर्भायाश्चतुर्थे
मासि सीमन्तोन्नयनम् १
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति
ऋद्धिमिति वाचयित्वा २
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा
पक्वाज्जुहोति ३
धाता ददातु नः इति पुरोनुवाक्यामनूच्य धाता प्रजाया उत राय
ईशे इति याज्यया जुहोति ४
अथाज्याहुतीरुपजुहोतिधाता ददातु नो रयिं
प्राचीम् इत्यान्तादनुवाकस्य ५
स्विष्टकृत्प्रभृति
सिद्धमाधेनुवरप्रदानात् ६
अथास्यास्त्रेण्या शलल्या
त्रिभिर्दर्भपुञ्जीलैरुदुम्बरप्रसूनैर्यवप्रसूनैरिति केशान् विभजन्
सीमन्तमुन्नयति राकामहम् यास्ते राके इति द्वाभ्याम् ७
अथास्यै
यवप्रसूनान्याबध्नाति यवोसि यवयास्मद्द्वेषो
यवयारातीः इति ८
अथैनौ वीणागाथिनाविति प्रतिगृह्णीते ९
अथैनौ संशास्ति गायतमिति १०
तावेतां गाथां गायतः सोम एव नो
राजेत्याहुर्ब्राह्मणीः प्रजाः । विवृत्तचक्रा
आसीनास्तीरेणासौ तव इति ११
यस्यै नद्यास्तीरे संश्रिता वसन्ति तस्यै नाम
गृह्णाति १२
अष्टमे मासि विष्णव आहुतीर्जुहोति विष्णोर्नुकम् इत्येतेन
सूक्तेन १३
विष्णवे बलिमुपहरति १४
वैष्णवो ह्येष मासो विज्ञायते
१५
विष्णुर्हि गर्भस्य देवता १६
इति हुतो व्याख्यातः १७
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने दशमोऽध्यायः