अथ प्रथमप्रश्ने नवमोऽध्यायः
विज्ञाते गर्भे तिप्ये पुंसवनम् १
ब्राह्मणानन्नेन परिविष्य
पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा २
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्
कृत्वा पक्वाज्जुहोति प्रजापते तन्वं मे जुषस्व त्वष्टर्देवेभिस्सहसाम
इन्द्र । विश्वैर्देवैरातिभिस्संरराणः पुंसां बहूना मातरस्स्याम
स्वाहा इति ३
अथाज्याहुतीरुपजुहोतिगर्भो अस्योषधीनां गर्भो वनस्पतीनाम्
इति तिसृभिरनुच्छन्दसम् ४
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५
अथास्या आज्यशेषमास्ये प्रच्योतयतिअस्मे देवासो वपुषे चिकित्सत इति
चतसृभिरनुच्छन्दसम् ६
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने नवमोऽध्यायः