अथ प्रथमप्रश्ने अष्टमोऽध्यायः
अथाभ्यां पञ्चमेऽहनि नापितकर्म
कुर्वन्ति १
नापिताय पयोदनं दत्वा ग्रामात्प्राचीं वोदीचीं वा
दिशमुपनिष्क्रम्य यत्रैकमुदुम्बरमूलं पश्यन्ति तं
प्रदक्षिणं परिसमूह्य प्रदक्षिणं गन्धैरनुलिम्पन् जयतियथा त्वं वनस्पत
ऊर्जा अभ्युत्थितो वनस्पते । शतवलूशो विरोहस्येवमहं पुत्रैश्च पशुभिश्च
सहस्रवल्शा वि वयं रुहेम इति २
सुमनोभिः प्रच्छादयतियथा त्वं
वनस्पते फलवानस्येवमहं पुत्रैश्च पशुभिश्च फलवान् भवानि इति
३
अत्रैव त्रिवृताऽन्नेन बलिमुपहरति ४
मन्त्रं चोदाहरन्तिऊर्जस्वान्
पयस्वान् पयसा पिन्वमानोऽस्मान् वनस्पते पयसाऽभ्याववृत्स्व इति ५
अन्नं संस्कृत्य ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा
जानुदघ्नमुदकमवतीर्य प्राचीनदशेनाहतेन वाससा
मत्स्यान् गृह्णतो ब्रह्मचारिणं पृच्छतो ब्रह्मचारिन् किं पश्यसि इति ६
स
पृष्टः प्रतिब्रूयात् पुत्रांश्च पशूंश्च इति ७
अथैतान्
मन्स्यानुदुम्बरमूले बकानां बलिमुपहरति
दीर्घायुत्वाय वर्चसे इति ८
अत्रैव निर्माल्यानि परिभुक्तानि
वासांसि प्रतिसरांश्च प्रतिमुच्योदुम्बरशाखायां संसृज्य ९
अथावगाह्यान्योन्यस्य पृष्ठे धावयित्वोदकान्तं प्रति यौति
प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः इति १०
अन्योन्यमलङ्कृत्य रक्तानि वासांसि
परिधायाहतेन वाससा वेति ११
यानेन पद्भ्यां वा गृहं गत्वा
प्रक्षालितपादावप आचम्य वाग्यतौ शयनमारभेते १२
श्वोभूते
वैश्वदेवेन प्रतिपद्यते १३
मासिश्राद्धेन चापरपक्षे १४
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने अष्टमोऽध्यायः