०७

अथ प्रथमप्रश्ने सप्तमोऽध्यायः

ब्राह्मणेन ब्राह्मण्यामुत्पन्नः प्रागुपनयनाज्जात इत्यभिधीयते १ उपनीतमात्रो व्रतानुचारी वेदानां किञ्चिदधीत्य ब्राह्मणः २
एकां शाखामधीत्य श्रोत्रियः ३
अङ्गाध्याय्यनूचानः ४
कल्पाध्यायी ऋषिकल्पः ५
सूत्रप्रवचनाध्यायी भ्रूणः ६
चतुर्वेदादृषिः ७
अत ऊर्ध्वं देवः ८
अथ यदि कामयेत श्रोत्रियं जनयेयमित्याऽरुन्धत्युपस्थानात्कृत्वा त्रिरात्रमक्षारलवणाशिनावधश्शायिनौ ब्रह्मचारिणावासाते ९
अहतानां च वाससां परिधानं सायं प्रातश्चालङ्करणामिषुप्रतोदयोश्च धारणमग्निपरिचर्या च १० चतुर्थ्यां पक्वहोम उपसंवेशनं च ११
अथ यदि कामयेतानृचानं जनयेयमिति द्वादशरात्रमेतद्व्रतं चरेत् १२
व्रतान्ते पक्वहोम उपसंवेशनं च १३ अथ यदि कामयेत ऋषिकल्पं जनयेयमिति मासमेतद्व्रतं चरेत् १४
व्रतान्ते पक्वहोम उपसंवेशनं च १५
अथ यदि कामयेत भ्रूणं जनयेयमिति चतुरो मासानेतद्व्रतं चरेत् १६
व्रतान्ते पक्वहोम उपसंवेशनं च १७
अथ यदि कामयेत ऋषिं जनयेयमिति षण्मासानेतद्व्रतं चरेत् १८
व्रतान्ते पक्वहोम उपसंवेशनं च १९
अथ यदि कामयेत देवं जनयेयमिति संवत्सरमेतद्व्रतं चरेत् २०
व्रतान्ते पक्वहोम उपसंवेशनं च २१
अथ यदैषा मलवद्वासास्स्यात्नैनया सह संवदेत न सहासीत नास्या अन्नमद्याद्भ्रह्महत्यायै ह्योषा वर्णं प्रतिमुच्यास्तेऽथो स्वल्वाहुरभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमेव न प्रतिगृह्यं काममन्यत् इति २२
नैनामुपेयात् २३
नारण्ये २४ न पराचीम् २५
न स्नाति २६
नाभ्यङ्क्ते २७
न प्रलिखते २८
नाङ्क्ते २९
न दतो धावते ३०
न नखानि निकृन्तते ३१
न कृणत्ति ३२
न रज्जुं सृजति ३३
न पर्णेन पिबति ३४
न खर्वेण पिबति ३५
तस्यै खर्वस्रिस्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथाय इति ब्राह्मणम् ३६
चतुर्थ्यां स्नातायां निशायामलङ्कृत्य शयनेऽभिमन्त्रयते विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ३७
यथाऽग्निगर्भा पृथिवी द्यौर्यथेन्द्रेण गर्भिणी । वायुर्यथा दिशां गर्भ एवं गर्भं दधातु ते ३८
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं धेहि अश्विनौ देवावाघत्तां पुष्करस्रजा ३९
हिरण्ययी अरणी यं निर्मन्थतो अश्विना । तन्ते गर्भं दधाम्यहं दशमे मासि सूतवे ४०
नेजमेष परापत सपुत्रः पुनरापत । अस्यै मे पुत्रकामायै गर्भमाधेहि यः पुमान् इति ४१
अथैनां परिष्वजतिअमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं रेतोऽहं रेतोभृत्त्वं मनोऽहमस्मि वाक्त्वं सामाहमस्मि ऋक्त्वं तावेहि सम्भवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय इति ४२
आत्मानं प्रत्यभिमृशतैअहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः । अहं प्रजा अजनयन्पितृणामहं जनिभ्यो अपरीषु पुत्रान् इति ४३
अथैनामुपैतितां पूपञ्छिवतमोमरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेफम् इति ४४
स एवमेव चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मामुपैति ४५ प्रजानिश्श्रेयसमृतुगमनमित्याचार्याः ४६
सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः ४७
यच्चादौ यच्चर्ताविति शालिकिः ४८

इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने सप्तमोऽध्यायः