०६

अथ प्रथमप्रश्ने षष्ठोऽध्यायः

आनयन्त्येतमग्निम् १
अथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा पद्यामोदनं पायसं वा याचति २
तमभ्युक्ष्याग्नावधिश्रयतिं ३
आज्यं निर्वपति ४ अथाज्यमधिश्रयति ५
उभयं पर्यग्नि कृत्वा मेक्षणं स्त्रुवं च सम्मार्ष्टि ६
अथैतं चरुं श्रपयित्वाऽभिधार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति ७
परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति ८ स एवमेव सर्वेषां स्थालीपाकानां चरुकल्पः ९
यस्त्वा हृदा कीरिणा मन्यमानः इति पुरोनुवाक्यामनूच्य यस्मै त्वं सुकृते जातवेदः इति याज्यया जुहोति १० अथाज्याहुतीरुपजुहोति ११
अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा १२
वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा १३
आदित्य प्रायश्चिते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा १४
प्रजापते प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा इति १५
पक्वादेव स्विष्टवतीभ्यां सौविष्टकृतम् १६ लाजैरितरत्र १७
हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दीद्यतं पुरन्धिमग्निं स्विष्टकृतमाहुवेमोम् । स्विष्टमग्ने अभि तत् पृणाहि विश्वादेव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन् विभाहि ज्योतिष्मद्धेह्यजरं न आयुस्स्वाहा इति १८
जयप्रभृति सिद्धमाधेनुवरप्रदानात् १९
अथाज्यशेषेण हिरण्यमन्तर्धाय मूर्ध्नि संस्रावं जुहोतिभूस्स्वाहा भुवस्स्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इति २०
अथैनां प्रदक्षिणमग्निं पर्याणयति अर्यम्णो अग्निं परियन्तु क्षिप्रं प्रतीक्षन्तां श्वश्रुवो देवराश्च इति २१ अथ श्रीमन्तमगारं सम्मृष्टोपलिप्तं गन्धवन्तं पुष्पवन्तं धूपवन्तं दीपवन्तं तल्पवन्तं साधिवासं दिक्षु सर्पिस्सूत्रेन्धनप्रद्योतितमुदकुम्भादर्शोच्छिरसं प्रपाद्य तस्मिन्नेनां संवेश्य तस्या अन्तिके जपति २२
उदीर्ष्वातो विश्वावसो नमसेडामहे त्वा । अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज । उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीट्टे । अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि इति २३
अथैनामुपसंवेशयति प्रजापतिस्स्त्रियां यशः इत्येतया २४ अथास्यासतोकोतिं विवृणोति प्रजायै त्वा इति २५
सा यद्यश्रु कुर्यात्तामनुमन्त्रयते जीवां रुदन्ती विमयन्तो अध्वरे दीर्घामनुप्रसितिं दीधियुर्नरः । वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे इति २६

इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने षष्ठोऽध्यायः