०५

अथ प्रथमप्रश्ने पञ्चमोऽध्यायः

तां न मिथस्संसादयेदनादेशात् १
अनुनयन्त्येतमग्निम् २ अथैनां पितुरङ्कादुद्वहति गुरोर्वाये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जना ँ! अनु । पुनस्तान्यज्ञिकीया देवा नयन्तु यत आगताः इति ३
अथैनां दक्षिणे हस्ते गृहीत्वा स्वरथमारोप्य स्वान् गृहानानयति पूषा त्वेतो नयतु हस्तगृह्याश्विनौ त्वा प्रवहतां रथेन । गृहान् गच्छ गृहपत्नी यथाऽसो वशिनी त्वं विदथमावदासि इति ४ पन्थानमनुमन्त्रयतेसु गं पन्थानमारुक्षमरिष्टं स्वस्तिवाहनम् । यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु इति ५
ओषधिवनस्पतयो नद्यो वनान्यनुमन्त्रयतेया ओषधयो या वनस्पतयो या नद्यो यानि धन्वानि ये वना । ते त्वा वधु प्रजावतीं प्रत्वे मुञ्चन्त्वंहसः इति ६
अथ जायामानीय स्वान् गृहान् प्रपादयतिभद्रान् गृहान् सुमनमः प्रपद्येऽवीरध्नी वीरवतस्सुवीरान् । इरां वहतो घृतमुक्षमाणास्तेष्वहं सुमनास्संविशानि इति ७
अथैनामानडुहे चर्मण्युपवेशयतिइह गावः प्रजायध्वमिहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो रायप्सोषो निषीदतु इति ८ अत्राभ्याममात्यास्स्तोक्माण्यारोपयन्ते ९
अथ वाचं यच्छतः आ नक्षत्राणामुदयात् १० अथाहोरात्रयोस्सन्धिमनुमन्त्रयतेनीललोहिते भवतः कृत्यासक्तिर्व्यज्यते । एधन्तेऽस्या ज्ञातयः पतिर्बन्धेषु बध्यताम् इति ११
अथोदितेषु नक्षत्रेषूपनिष्क्रम्य ध्रुवमरुन्धतीं च दर्शयति १२ ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवमसि ध्रुवतस्स्थितम् । त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यतः इति ध्रुवम् १३
सप्त ऋषयः प्रथमां कृत्तिकानामरुन्धतीं यद्ध्रुवतां ह निन्युः । षट्कृत्तिका मुख्ययोगं वहन्तीयमस्माकमेधत्वष्टम्यरुन्धती इत्यरुन्धतीम् १४
अथ विवाहस्यारुन्धत्युपस्थानात् कृत्वा व्रतमुपैतिअग्ने व्रतपते उपयमनं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते उपयननं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् इति १५
उभौ जायापती व्रतचारिणौ ब्रह्मचारिणौ भवतोऽधश्शयाते १६
तयोश्श्यामन्तरेणोदुम्बरदण्डो गन्धानुलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठत्यापक्वहोमात् १७
चतुर्थ्यां निशायां हुते पक्वहोमे व्रतं विसृज्य दण्डमुत्थापयतिऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो विरोह । त्वया वयमिषमूर्ज वदन्तो रायस्पोषेण समिषा मदेम इति १८
अथैनं वध्वै प्रयच्छति प्रजया त्वा संसृजामि मासरेण सुरामिव इति १९
तं वधूः प्रतिगृह्णातिप्रजावती भूयासम् इति २०
अथैनं वराय प्रयच्छतिप्रजया त्वा पशुभिस्संसृजामि मासरेण सुरामिव इति २१
तं वरः प्रतिगृह्णातिप्रजावान् पशुमान् भूयासम् इति २२
अथैनं स्थूणादेशे निधायान्तिकेन प्रतिपद्यते २३
प्रसिद्धमुपसंवेशनम् २४
श्वोभूते दण्डमादाय पुण्याहं वाचयित्वाऽप्सु विसर्जयति २५
अथ देवयजनोल्लेखनप्रभृत्याग्निमुत्वात् कृत्वा पक्वाज्जुहोतिअग्निर्मूर्धा भुवः इति द्वाभ्याम् २६ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् २७
स एष पार्वणो भवति २८
अथास्तमित आदित्येऽन्योन्यमलङ्कृत्योपरिशय्यां शयाते २९
अथ वधूमभिमन्त्रयतेसुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्वायाथास्तं विपरेतन इति ३०
अथैनां सर्वसुरभिगन्धया मालया युनक्ति सं ना मनस्सं हृदयानि सं नाऽभि सं तनुत्यजः । सं त्वा कामस्य याक्रेणे युञ्जत्यविमोचनाय इति

इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने पञ्चमोऽध्यायः