अथ प्रथमप्रश्ने चतुर्थोऽध्यायः
अथास्या उपोत्थाय
दक्षिणेन हस्तेन दक्षिणमंसं प्रतिबाहुमन्ववहृत्य
हृदयदेशमभिमृशतिमम हृदये हृदयं ते अस्तु
मम चित्ते चित्तमस्तु ते । मम वाजमेकमनाः शृणु मामेवानुव्रता सहचर्या मया
भव इति १
अथास्यै दक्षिणे कर्णे जपति २
मां ते मनः प्रविशतु मां
चक्षुर्मामु ते भगः मयि सर्वाणि भूतानि मयि प्रज्ञानमस्तु ते
३
मधुगे मध्वगाहे जिह्वा मे मधुवादिनी । मुखे मे सारघं मधु दत्सु संवननं
कृतम् ४
चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम् । यद्वित्तौ
देवगन्धर्वौ तेन संवनिनौ स्वः ५
स्पृशामि
तेऽहमङ्गानि वायुरापश्च मा मरः । मां चैव पश्य
सूर्यं च मा चान्येषु मनः कृथाः ६
सोमः प्रथमो विविदे गन्धर्वो
विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ७
सोमोऽददद्गन्धर्वाय गन्धर्वोऽददग्नये । रयिं च
पुत्रांश्चादादग्निर्मह्यमथो इमाम् ८
सरस्वति प्रेदमव सुभगे वाजिनीवति ।
तां त्वा विश्वस्य भूतस्य प्रगायामस्यग्रतः इति ९
अथास्यै दक्षिणेन
नीचा हस्तेन दक्षिणमुत्तानं हस्तं साङ्गुष्ठमभीव लोमानि गृह्णाति
गृभ्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथाऽसः ।
भगोअर्यमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गार्हपत्याय देवाः इति १०
अथैनां
प्रदक्षिणमग्निं पर्याणयतिपरित्वाऽग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवेदिवे भेत्तारं भङ्गुरावतः इति ११
अथ तथोपविश्यान्वारब्धायामुपयमनीर्जुहोति
१२
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । सञ्जास्पत्यं
सुयममाकृणुष्व शत्रूयतामभितिष्ठा महांसि स्वाहा १३
सोमाय जनिविदे
स्वाहा १४
गन्धर्वाय जनिविदे स्वाहा १५
अग्नये जनिविदे स्वाहा
१६
कन्यला पितृभ्यो यती पतिलोकमव दीक्षामदास्थ स्वाहा १७
प्रेतो मुञ्चाति
नामुतस्सुबद्धाममुतस्करत् । यथेयमिन्द्रमीढ्वस्सुपुत्रा सुभगा सती स्वाहा
१८
इमां त्वमिन्द्र मीढ्वस्सुपुत्रां सुभगां कुरु । दशास्यां
पुत्रानाधेहि पतिमेकादशं स्वाहा १९
अग्निरैतु
प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं
स्त्री पौत्रमघं न रोदात् स्वाहा २०
इमामग्निस्त्रायतां गार्हपत्यः
प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता
पौत्रमानन्दमभिप्रबुध्यतामियं स्वाहा २१
मा ते
गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यस्संविशन्तु । मा त्वं विकेश्युर
आवधिष्ठा जीवपत्री पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां
स्वाहा २२
अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाऽघम् ।
शीर्ष्णस्स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाशं
स्वाहा इति २३
अथैनामुत्थाप्योत्तरेणाग्निं दक्षिणेन
पदाऽश्मानमास्थापयति आतिष्ठेममश्मानमश्मेव
त्वं स्थिरा भव । अभितिष्ठ पृतन्यतस्सहस्व पृतनायतः इति २४
अथास्या
अञ्जलावुपस्तीर्य तस्यास्सोदर्यो द्विर्लाजानावपति २५
तानभिधार्य जुहोति इयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती ।
दीर्घायुस्स्तु मे पतिर्जीवातु शरदश्शतं स्वाहा २६
अथैनां प्रदक्षिणमग्निं
पर्याणयतितुभ्यमग्ने पर्यवहन् सूर्यं वहतुना सह । पुनः पतिभ्यो जायां
दा अग्ने प्रजया सह इति २७
तथाऽऽस्थापयति तथा जुहोति २८
अथैनां पुनः
प्रदक्षिणमग्निं पर्याणयतिपुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
दीर्घायुरस्या यः पतिस्स एतु शरदश्शतम् इति २९
तथैवास्थापयति तथैव
जुहोति ३०
अथैनां पुनरेव पर्याणयति विश्वा उत त्वया वयं धारा
उदन्या इव । आतिगाहेमहि द्विषः इति ३१
अथ तथोपविश्यान्वरब्धायां
जयानभ्यातानात्राष्ट्रभृत इति हुत्वा अथामात्यहोमान् जुहोति ३२
अथ प्राजापत्यात् जुहोतिप्रजापते न त्वदेतान्यन्यः इति ३३
अथ सौविष्टकृतं जुहोति यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् ।
अग्निस्तत्स्विष्टकृद्विद्वान् सर्व स्विष्टं सुहुतं करोतु
मे । अग्नये स्विष्टकृते सुहुतहुत आहुतीनां कामानां समर्धयित्रे स्वाहा
इति ३४
अथ स्त्रुवेण परिधीननक्ति ३५
अथ परिस्तरात्समुल्लिप्याज्यस्थाल्यां
प्रस्तरवत् बर्हिरक्त्वा तृणं प्रच्छाद्याग्नावनुप्रहरति ३६
अथ शम्या
अपोह्य तथैव परिषिञ्चति । अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान्
सन्नमयति ३७
अथ प्रणोताद्भ्यो दिशो व्युन्नीय ब्रह्मणे वरं ददामीति गां
ब्राह्मणेभ्यः ३८
एष आघारबान् दर्वीहोमः ३९
अथापरःपरिसमूह्य
पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्त्रुक् स्त्रुवं
निष्टप्य सम्मृज्य स्त्रुचि चतुर्गृहीतं गृहीत्वा सर्वान्
मन्त्रान् समनुद्रुत्य सकृदेवाहुतिं जुहोति ४०
अग्निस्स्विष्टकृद्वितीयः ४१
द्विर्जुहोति
द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचामति
निर्लेढीत्येष आग्निहोत्रिकः ४२
अथापरःपरिसमूह्य पर्युक्ष्य परिस्तीर्य
प्राकृतेन हविषा यावदाम्नातमाहुतीर्जुहोत्येष ह्यपूर्वः ४३
तत्रोदाहरन्ति आघारं प्रकृतिं प्राह दर्वीहोमस्य
बादरिः । आग्निहोत्रिकं तथाऽऽत्रेयः काशकृत्स्नस्त्वपूर्वताम् इति
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने चतुर्थोऽध्यायः