अथ प्रथमप्रश्ने तृतीयोऽध्यायः
अथ शुचौ
समे देशे अग्न्यायतनदेशं शकलेन त्रिः प्राचीनमुल्लिखेत्
त्रिरुदीचीनम् १
अथाद्भिरभ्युक्ष्य शकलं
निरस्याप उपस्पृश्य याज्ञिकात्काष्ठादग्निं मथित्वा
श्रोत्रियागाराद्वाऽऽहृत्य
व्याहृतिभिर्निरुप्योपसमाधायोपदिष्ठते
२
जुष्टो दमूना अतिथिदुर्गेण इमं नो यज्ञमुपया हि विद्रान् । विश्वा
अग्नेऽभियुजो विहत्य शत्रूयतामाभरा भोजनानि इति ३
अथैनं
प्रदाक्षिणमग्निं परिसमूह्य पर्यृक्ष्य परिस्तीर्य
प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ४
अपि
वोदगग्राः पश्चाच्च पुरस्ताच्च भवन्ति ५
दक्षिणानुत्तरानुत्तरानधरान्यदि
प्रागुदगग्राः ६
उत्तरेणाग्निं प्रगग्रान् दर्भान् संस्तीर्य तेषु
द्वन्द्वं न्यच्चि पात्राणि संसादयति
देवसंयुक्तान्येकैकशः
पितृसंयुक्तानि सकृदेव मनुष्यसंयुक्तानि ७
यत्सह सर्वाणि मानुषाणि इत्येतस्माद्ब्राह्मणात् ८
पवित्रे कृत्वा
तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रोक्ष्य
विस्त्रस्येध्मं त्रिस्सर्वाभिः प्रोक्षति ९
दर्भेषु
दक्षिणतो ब्राह्मण उपविशति उतरत उदपात्रम् १०
अथ तिरःपवित्रमाज्यस्थाल्यामाज्यं
निरुप्योदीचोऽङ्गाराऽन्निरूह्य यन्तान्कृत्वा
तेष्वधिश्रित्याभिद्योतनेनाभिद्योत्य
द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य प्रत्यस्य पुनरभिद्योत्य त्रिः
पर्यग्निकृत्वा वर्त्म कुर्वन्नुदगुद्वास्य
प्रत्यूह्याङ्गारान् बर्हिरास्तीर्य
अथैनदुदीचीनाग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय विस्त्रस्य
पवित्रेऽद्भिस्संस्पृश्याग्नावनुप्रहरति ११
अथ दर्वी निष्टप्य
दर्भैस्सम्मृज्याद्भिस्संस्पृश्य पुनर्निष्टप्य प्रोक्ष्य निधाय
दर्मानद्भिस्संस्पृश्याग्नावनुप्रहराति १२
अथ शम्याः परिधाति
स्वादिरी दर्वी तेजस्कामस्यौदुम्बर्यन्नाद्यकामस्य पालाशी
ब्रह्मवर्चसकामस्य इति १३
अथ हैकेषां विज्ञायते निरृतिगृहिता वै
दवीं यद्दर्व्या जुहुयान्निरृत्याऽस्य यज्ञ ग्राहयेत्तस्मात्स्त्रुवेणैव
होतव्यम् इति १४
पालाशेन स्त्रुवेणेत्यात्रेयः १५
खादिरेणेत्याङ्गिरसः १६
ताम्रायसेनेत्याथर्वणः १७
कार्ष्णायसेनाभिचरन्निति सार्वत्रिकम् १८
अन्यो वाऽस्यैतावत्कृत्वाऽऽगमनं काङ्क्षेत् १९
अपरेणाग्निमुदीचीनप्रतिषेवणामेरकां
साधिवासामास्तीर्य तस्यां प्राञ्चावुपविशत उत्तरतः पतिर्दक्षिणा पत्नी २०
अथान्वारब्धायां प्रदक्षिणमग्निं परिषिञ्चति २१
अदितेऽनुमन्यस्व इति
दक्षिणतः प्राचीनम् २२
अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनम् २३
सरस्वतेऽनुमन्यस्व इत्युत्तरतः प्राचीनम् २४
देव सवितः प्रसुव
इति समन्तं प्रदक्षिणं समन्तमेव वा तूष्णीम् २५
अथेभ्यमभ्यज्य
परिसमिधं शिनष्टि स्वाहाकारेणाभ्याधायाघारावाधारयति २६
प्रजापतये स्वाहा इति मनसोत्तरे परिधिसन्धौ संस्पृश्याक्ष्णया
सन्ततम् २७
इन्द्राय स्वाहा इत्युपांशु दक्षिणे परिधिसन्धौ
संस्पृश्याक्ष्णया सन्ततम् २८
अथाज्यभागौ
जुहोति २९
अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे ३०
सोमाय
स्वाहा इति दक्षिणार्धपूर्वार्धे ३१
अथाग्निमुखं जुहोति ३२
युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् ।
त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान् पुरुषान् सनेमि स्वाहा
३३
चतस्र आशाः प्रचरन्त्वग्नय इमं नो यज्ञं नयतु प्रजानन् । घृतं
पिबन्नजरं सुवीरं ब्रह्म समिद्भवत्याहुतीनां स्वाहा ३४
आ
नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा
सदमिद्वृधे सन्न प्रायुवो रक्षितारो दिवे दिवे स्वाहा ३५
विरूपाक्ष मा
विबान्धिष्ठा मा विबाध विबाधिथाः । निरृत्यै त्वा पुत्रमाहुस्स नः
मर्माणि धारय स्वाहा ३६
विरूपाक्षमहं यजे निजङ्घं शबलोदरम् । यो माऽयं
परिबाधते श्रियै पुष्ट्यै च नित्यदा तस्मै स्वाहा ३७
या तिरश्ची
निपद्यसेऽहं विघरणी इति । तां त्वा घृतस्य धारयाऽग्नौ संराधिर्नी यजे
स्वाहा ३८
संराधिन्यै देव्यै स्वाहा । प्रसाधिन्यै देन्यै स्वाहा ।
भूस्स्वाहा । भुवस्स्वाहा । सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इत्येतावत्
सर्वदर्वीहोमानामेष कल्पः ३९
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने तृतीयोध्यायः