अथ प्रथमप्रश्ने द्वितीयोऽध्यायः
आवेद्यार्घ्यं
कुर्यात् १
मध्येऽगारस्योदीचीनप्रतिषेवणा एरका उपस्तृणाति २
तास्वहतानि
बहुगुणान्युत्तरदशानि वासांस्यास्तीर्य तेष्वृत्विजः प्राङ्मुखा
उपविशन्ति ३
उत्तरपूर्वे देशेऽगारस्य प्राक्कूलान् दर्भान् संस्तीर्य
तेष्वर्घ्यद्रव्याणि संसादयति ४
यावन्त ऋत्विजस्तावन्ति कांस्यानि
पात्राणि सापिधानानि तावतः कूर्चान् ५
द्वावन्यौ
परिग्रहणीयौ कूर्चौ ६
दधि मधु घृतमापः पयो वस्त्रयुगानि
कुण्डलयुगानि ७
यस्यै गोः पयश्चमसः स्रगलङ्करणीयं चेति ८
पवित्रे कृत्वा
तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रोक्ष्य कूर्चे
कांस्यं निधाय तिरःपवित्रं मध्वानयति ९
दधि पयो वा द्वितीयं स
द्विवृत् १०
घृतं तृतीयं स त्रिवृत् ११
यद्द्वितीयं तच्चतुर्थं स
चतुर्वृत् १२
आपः पञ्चमीस्स पाङ्क्तः १३
वर्षीयसा तेजोमयेनापिधाय
नानापुरुषा अर्घ्यद्रव्याण्याददते अन्वगनुसंव्रजता १४
कूर्चः इति कूर्चं प्राह १५
तत् सुकूर्चः इतीतरः प्रतिगृह्णाति १६
तं
प्रदक्षिणं पर्यस्योदगावृत्त उपविशति १७
पुरस्ताद्वन्न
प्रत्यञ्चमुपोहते राष्ट्रभृदस्याचार्यासन्दी मा
त्वद्योषम् इति १८
अथास्मा उदपात्रमादाय कूर्चाभ्यां
परिगृह्य पाद्या आप इति प्राह १९
ता अभिमन्त्रयते आपः
पादावनेजानीर्द्विषन्तं नाशयन्तु मे । अस्मिन्
कुले ब्रह्मवर्चस्यसानि इति २०
दक्षिणं पादं पूर्वं ब्राह्मणाय
प्रसारयति । स्वयं शूद्राय २१
स्त्री प्रक्षालयति
पुमानभिषिञ्चति । विपरीतमित्येके २२
नियमात् पत्नीयजमानौ
जङ्घ्रे धावयतः २३
अवनेक्तुः पाणी सम्मृशति मयि महो मयि भगो मयि भर्गो मयि
यशः इति २४
अथाप उपस्पृश्य मयीन्द्रियं वीर्यम् इत्युरःप्रत्यात्मानं
प्रत्यभिमृशते २५
अपो ब्रीहिभिर्यवैर्वा समुदायुत्य तथैव
कूर्चाभ्यां परिगृह्यार्हणीया आप इति प्राह २६
ता अभिमन्त्रये
आम आगाद्वर्चसा यशमा संसृज पयसा तेजसा च । तं मा प्रियं प्रजानां
कुर्वधिपतिं पशूनाम् इति २७
एकदेशमञ्जलाबानीयमानमनुमन्त्रये
विराजोऽसि विराजो दोहमशीय । मम पद्याय विराज इति २८
अतिशिष्टाः
पराचीर्निनीयमाना अनुमन्त्रये समुद्रं वः
प्रहिणोम्य क्षिताः स्वा योनिमपि गच्छत । अच्छिद्रः
प्रजया भूयासं मा परासोचि मत्पयः इति २९
अथ तथैव कूर्चाभ्यां
परिगृह्योपस्तरणीया आप इति प्राह ३०
ता पिबति अमृतोपस्तरणमसि इति
३१
त्रिराचमेत् त्रिः परिमृजेत् । द्विरत्येके ३२
आचान्तायापावृत्ताय
तथैव कूर्चाभ्यां परिगृह्यार्घ्य इति प्राह मधुपर्क इति वा ३३
मधुपर्कं
प्रोक्तमनुमन्त्रयते त्रय्यै विद्यायै यशोऽसि यशसो यशोऽसि ब्रह्मणो
दीप्तिरसि । तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनाम्
इति ३४
तमुभाभ्यां हस्ताभ्यां प्रतिगृह्णाति देवस्य त्वा सवितुः
प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इति
३५
तस्मिंश्चित् किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्व्या
चोपसङ्गृह्येमां दिशं निरस्यति नेष्टावृद्धिं कृन्तामि या ते
घोरा तनूः । तया तमाविश योस्मान् द्वेष्टि यं च वयं द्विष्मः इति ३६
अथाप
उपस्पृश्य सर्वाभिरङ्गुलीभिस्समुदायुत्य प्राश्नाति यन्मधुनो मधव्यं
परममन्नाद्यं वीर्यम् । तेनाह मधुनो मधव्येन परमेणान्नाद्येन
वीर्येण परमोऽन्नादो मधव्योऽसानि इति ३७
त्रिः प्राश्य
त्रिरनुपिबेच्छेषं च कुर्यात् ३८
य आत्मनः
श्रेयांसमिच्छेत्तस्मै शेषं
दद्यादिति ३९
आचान्तायापावृत्ताय तथैव कूर्चाभ्यां
परिगृह्यापिधानीया आप इति प्राह ४०
ताः पिबति
अमृतापिधानमसि इति ४१
त्रिराचामेत् त्रिः परिमृजेत् ।
द्विरित्येके ४२
आचान्तायापावृत्ताय गौरिति गां
प्राह ४३
तामनुमन्त्रयते गौरस्यपहतपाप्माऽप पाप्मानं नुद मम
चामुष्य च इत्युपवेत्तुर्नाम गृह्णाति ४४
नाना महर्त्विग्भ्यो
गाः प्राह ४५
एकां होतृकेभ्यः ४६
सर्वेभ्यो वैकामविभवत्वात् ४७
यः
प्राह तस्मा उपाकरोत्येकदेशं वपाय जुहोति अग्निः प्रथमः प्राश्नातु
स हि वेद यथा हविः । शिवा अस्माभ्यमोपधीः कृणोतु विश्वचर्षणिः इति ४८
एकदेशमुपहरति तत् प्राश्नाति अग्निः प्रथमः प्राश्नातु स हि वेद
यथा हविः । अरिष्टमस्माकं कृणोत्वसौ ब्राह्मणो ब्राह्मणेषु इति । अथ
यदुत्स्त्रक्ष्यन् भवति तामनुमन्त्रयते गौर्धेनुभव्या माता रुद्राणां
दुहिता वसूनां स्वसाऽऽदित्यानाममृतस्य नाभिः । प्रणुवोचं चिकितुषे
जनाय मा गामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्त । ओमुत्सृजत इति ५०
तस्यामुत्सृष्टायां मेषमजं वाऽऽलभते ५१
आरण्येन वा मांसेन ५२
न
त्वेवामांसोऽर्घ्यस्स्यात् ५३
अशक्तौ पिष्टान्नं
संसिद्ध्येत् ५४
सिद्धे भूतम् इति प्राह ५५
तत् सुभूतम् इति
इतरः प्रत्याह ५६
तदभिमन्त्रयते भूतं सुभूतं सा विराट्र तन्मा क्षायि
तन्मेऽशीय तन्म ऊर्जं वा ॐ कल्पयत इति ५७
चतुरो नानागोत्रान् ब्राह्मणान्
भोजयतेत्येव ब्रूयात् ५८
तेषु भुक्तवत्स्वन्नमस्मा उपहरति ५९
तत्प्राश्नाति विराडसि विराडन्नं विराड्रिवाराजो मयि
धेहि इति ६०
भुक्तवद्भ्यो वस्त्रयुगानि कुण्डलयुगानि यस्यै गोः पयश्चमसः
स्रगलङ्करणीयमिति च दद्यात् । एकधनं षष्ठौहीं दम्यावित्येके ६१
प्राङ्मधुपर्कादलङ्करणमेके समामनन्ति ६२
महयेदृत्विजमाचार्य चात्मानं वा एष महयति
यस्समृत्विजमाचार्यं च महयत्येवमेवंव्रता वा आत्यन्तिकास्स्युः
पतितोऽननूचान इति निमित्तानि ६३
वरणेऽग्न्याधेयप्रभृतिषु चैषामृत्विजं
स्मरेत् ६४
तथैते अर्घ्या ऋत्विक् श्वशुरः पितृव्यो मातुल आचार्यो राजा
वा स्नातकः प्रियो वरोऽतिथिरिति ६५
संवत्सरपर्यागतेभ्य एतेभ्य एवं कुर्यात्
विवाहे वराय ६६
अथर्त्विग्भ्यः कर्मणि कर्मणि ददाति ६७
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने द्वितीयोऽध्यायः