०१

अथ प्रथमप्रश्ने प्रथमोऽध्यायः

यथो एतद्धुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसंस्था इति १
ता अनु व्याख्यास्यामः २
तत्र यद्धूयते स हुतो यथैतद्विवाहस्सीमन्तोन्नयनं चेति ३
तत्र हि हूयत एव ४
अथ यद्धुत्वा दीयते स प्रहुतो यथैतज्जातकर्म चौलं चेति ५
तत्र हि हुत्वा दीयत एव ६
अथ युद्धुत्वा दत्वा चादीयते स आहुतः यथैतदुपनयनं समावर्तनं चेति ७
तत्र हि हुत्वा दत्वा चादीयते ८
अथ यच्छूलेषूपनीय गव्यानि श्रपयन्ति स शूलगवः ९
अथ यत् गृह्याभ्यो देवताभ्योऽन्नं सन्प्रक्रिरन्ति तत् बलिहरणम् १०
अथ यदृतो ऋतुं प्रत्यवरोहन्ति तत् प्रत्यवरोहणम् ११
अथ यदेकाष्टकायामन्नं क्रियते सोऽष्टकाहोम इति १२
विवाहं व्याख्यास्यामः १३
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे युग्मान् ब्राह्मणान् वरान् प्रहिणोति प्रसुग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँअभिषुप्रसीदत । अस्माकमिन्द्र उभयं जुजोषति यत्सौम्यस्यान्धसो बुबोधति इति १४
यतोऽनुमन्त्रयते अनृक्षरा ऋजवस्सन्तु पन्था येभिस्सखायो यन्ति नो वरेयम् । समर्यमा सम्भगो नो निनीयात्सञ्जास्पत्यँसुयममस्तु देवाः इति १५
अथ यदि दक्षिणाभिस्सह दत्ता स्यान्नात्र वरान् प्रहिणुयात् १६
तां प्रतिगृह्णीयात् प्रजापतिस्त्रियां यशः इत्येताभिष्षड्भिरनुच्छन्दसम् १७
सर्वे मासा विवाहस्य १८
शुचितपस्तपस्यवर्जमित्येके १९
रोहिणी मृगशीर्षमुत्तरे फल्गुनी स्वातीति विवाहस्य नक्षत्राणि २०
पुनर्वसू तिष्यो हस्तश्श्रोणा रेवतीत्यन्येषां भूतिकर्मणाम् २१
यानि चान्यानि पुण्योक्तानि नक्षत्राणि तेषु पूर्वेद्युरेवर्द्धिपूर्तेषु युग्मान् ब्राह्मणान् भोजयेत् २२
प्रदक्षिणमुपचारः २३ पुष्पफलाक्षतमिश्रैर्यवैस्तिलार्थमुपलिष्यां दध्योदनं सम्प्रकीर्य दक्षिणं जानुं भूमौ निधाय सव्यमुद्धृत्य इडा देवहूः इति जपित्वा नान्दीमुखाः पितरः प्रियन्ताम् इति वाचयित्वा अद्य विवाहः इति ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इत्योङ्कारपूर्वं त्रिस्त्रिरेकैकामाशिषो वाचयित्वा स्नातोऽहतवासो गन्घानुलिप्तस्स्रग्वी भुक्तवान् प्रतोदपाणिरपदातिर्गत्वा वधूज्ञातिभिरतिथिवदर्चितस्स्नातामहतवाससां गन्धानुलिप्तां स्रग्विणीं भुक्तवतीमिषुहस्तां दत्तां वधूं समीक्षते अभ्रातृघ्नीं वरुणापतिघ्नीं बृहस्पते । इन्द्रापुत्रघ्नीं लक्ष्म्यं तामस्यै सवितस्सुव इति २४
तयेक्ष्यमाणो जपति अघोरचक्षुरपतिघ्न्येधि शिवा पतिभ्यस्सुमनास्सुवर्चाः । जीवसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे इति २५
अथैनामन्तरेण भ्रुमुखे दर्भेण सम्मार्ष्टि इदमहं या त्वयि पतिघ्न्यलक्ष्मिस्तां निर्दिशामि इति २६
दर्भं निरस्याप उपस्पृश्याथैनां दक्षिणे हस्ते गृह्णाति मित्रोऽसि इति २७
अथैनां देवयजनमुदानयति एकमिषे विष्णुस्त्वाऽन्वेतु । द्वे ऊर्जे विष्णुस्त्वाऽन्वेतु । त्रीणि व्रताय विष्णुस्त्वाऽन्वेतु । चत्वारि मायोभवाय विष्णुस्त्वाऽन्वेतु । पञ्च पशुभ्यो विष्णुस्त्वाऽन्वेतु । षडायस्पॐषाय विष्णुस्त्वाऽन्वेतु । सप्तभ्यो होत्राभ्यो विष्णुस्त्वाऽन्वेतु इति २८
सप्तमं पदमुपसङ्गृह्य जपति सखायस्सप्तपदा उभूम सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मा योष्ठाः इति