अथ लौकिकौपासनग्रहणधारणोपावरोहणविधि व्याख्यास्यामः।
त्रिविधं समारोपणम् आत्मन्य् अरण्योस् समिधीति ॥ १
समिधि समारोपयति- पालाशीमाश्वत्थीं खादिरीमौदुम्बरीं शमीमयी वा समिधमादाय समारोपयति-
19 अयन्ते योनिर् ...{Loading}...
अ॒यन् ते॒ योनि॑र् ऋ॒त्वियः॑ ।
यतो॑ जा॒तो अरो॑चथाः ।
तञ् जा॒नन्न् अ॑ग्न॒ आ रो॑ह +++(→ सीदेति शाकले)+++ ।
अथा॑ नो वर्धया र॒यिम् ।
इति ॥
अरण्योर्वा समारोप्य मथित्वा जुहुयात् ॥ ३
अपि वाऽऽत्मान समारोपणं भवति-
‘या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मान॑म् । अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ ।
य॒ज्ञो भू॒त्वा य॒ज्ञमा सी॑द॒ स्वां योनि॑म् । जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑’ इति ॥
अथैनमुपावरोहयति–‘उपावरोह जातवेदः’ इति ॥५
21 उपावरोह जातवेदᳶ ...{Loading}...
उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स् त्वम् ॥41॥
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑ह नᳶ प्रजा॒नन् ।
आयु॑ᳶ प्र॒जाँ र॒यिम् अ॒स्मासु॑ धेहि ।
अज॑स्रो दीदिहि नो दुरो॒णे ।
यत्र गच्छेत् तत्र नो हरेत् तत्र प्राप्य लौकिकमग्निमाहृत्य न्युप्योपसमाधाय तां समिधमादधाति यस्यात्मनि समारूढो भवति-‘आजुह्वानः, उद्बुध्यस्वाग्ने’इति द्वाभ्याम् ॥ ६
07 आजुह्वानस् सुप्रतीकᳶ ...{Loading}...
आ॒जुह्वा॑नस्+++(=हूयमानः)+++ सु॒-प्रती॑कᳶ पु॒रस्ता॒द्
अग्ने॒ स्वाय्ँ योनि॒म् आ सी॑द सा॒ध्या+++(→ साधु॒या माध्यन्दिने)+++ ।
अ॒स्मिन्त् स॒ध-स्थे॒, अध्य् उत्त॑रस्मि॒न्
विश्वे॑ देवाः॒! यज॑मानश् च सीदत ।
45 उद्बुध्यस्वाग्ने प्रति ...{Loading}...
उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्य्
एनम् इष्टा-पू॒र्ते सँसृ॑जेथाम॒यञ्च॑ ।
पुन॑ᳵ कृ॒ण्वँस् त्वा॑ पि॒तरय्ँ॒ युवा॑नम्
अ॒न्वाताँ॑सी॒त् त्वयि॒ तन्तु॑म् ए॒तम् ।