ऋष्यणूकं (अणूकमभिधायकं) देवाताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्युः। +++(ऋष्यणूकं वसिष्ठः नारदः इत्यादि । देवताणूकं विष्णुः शिवः इति । पूर्वपुरुषाणां पितृपितामहादीनां वा नामानि यज्ञशर्मा, सोमशर्मा।)+++