अथ पञ्चमप्रश्ने अष्टमोऽध्यायः

अथात उग्ररथशान्तिविधिं व्याख्यास्यामः ब्राह्मणराजन्यवैश्यानां जन्मदिनादारभ्य षष्टितमसंवत्सरे जन्ममासे जन्मनक्षत्रे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा तस्याग्नेयदिग्भागे निष्कद्वयेन मृत्युप्रतिमां कृत्वा धान्यानामुपरि यथाविधि कलशस्थापनं कृत्वा कलशस्योपरि प्रतिमां पूजयेत् अपैतु मृत्युः परं मृत्यो मा नस्तोके त्रियम्बकम् इत्यष्टोत्तरशतवारं जपित्वाऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखान्तं कृत्वा पक्वाज्जुहोति द्विरवदानम् मा नो महान्तम् इति पुरोनुवाक्यामनूच्य मा नस्तोके इति याज्यया जुहोति १
अथाज्याहुतीरुपजुहोति घृतसूक्तेन प्रत्यृचम् २
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३
अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति ४
अपरेणाग्निं प्राङ्मुख उपविश्य मृत्युसुक्तपुराणयन्त्रैः कलशोदकेनात्मानमभिषिच्याचार्यं संपूज्य ऋत्विग्भ्यो यथाशक्ति दक्षिणां दत्वा ब्राह्मणान् भोजयेदित्याह भगवान् बोधायनः ५

इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने अष्टमोऽध्यायः