अथ पञ्चमप्रश्ने सप्तमोऽध्यायः
अथातो वनस्पतिहोमं व्याख्यास्यामः क्रमुकपनसनालिकेरकदलीष्वन्यस्मिन् पक्वे ब्राह्मणैर्बन्धुभिस्सहागत्य यजमानः क्रमुकादिवृक्षमध्ये अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वाऽग्नेर्दक्षिणतो व्रीहीनवकीर्य मेधां म इन्द्रः इति श्रीदेवीं सरस्वतीमावाह्य प्रागाद्यष्टदिक्पालानावाह्य चतुरः प्रतिदिशं क्रमुकादिवृक्षानर्चयित्वा चतस्र ओषधीस्तेषां पार्श्वे निधाय उच्छ्रयस्व वनस्पते इति गोमयं क्रमुकमूले निधाय लाजैः पुष्पैरक्षतैस्सम्प्रकीर्य पूर्णपात्रं निधाय क्षेत्रस्य पते इति क्षेत्रमभ्यर्च्य या जाता ओषधयः या ते धामानि या ओषधयस्सोमराज्ञीः शतं वो अम्ब अश्रवं हि भूरिदावत्तरावाम् इति वनस्पतिभ्यस्स्वाहा इत्येतेनानुवाकेन हविराज्यचरून् हुत्वा जयादि प्रतिपद्यते । परिषेचनान्तं कृत्वा ब्राह्मणान् भोजयित्वा दक्षिणाभिस्सम्पूज्य स्वस्तिसूक्तेनाध्वर्युराशिषो वाचयित्वाऽऽचार्याय दक्षिणां ददातीत्याह भगवान् बोधायनः १
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने सप्तमोऽध्यायः