अथ पञ्चमप्रश्ने षष्ठोऽध्यायः
अथातः पञ्चमीश्राद्धं व्याख्यास्यामः मार्गशीर्ष्यां माध्यां प्रोष्ठपद्यां वोपरिष्टात्पञ्चम्यामारभ्य संवत्सरं वा कुर्यात् १
पूर्वदिने व्रती भूयात् इदं करिष्याम्येवं करिष्यामि इति २
ब्राह्मणान्निमन्त्रयते योनिगोत्रश्रुतवृत्तसम्पन्नान् ३
असबन्धानपि श्रुतवृत्तसम्पन्नान्निमन्त्रयते ४
तस्य मासि श्राद्ध उक्त एतावदेव नाना ५
पुरस्तात्स्विष्टकृत एता आहुतीर्जुहोति आयुष्टे आयुर्दा अग्ने जातो यदग्ने अन्नपतेऽन्नस्य नो देहि इति चतस्रः ६
विष्णुसूक्तेन चान्नस्य जुहोति ७
अथ लाजैर्जुहोति पुरुषसूक्तेन प्रत्यृचम् ८
अथ तिलैर्जुहोति शं नो देवीः प्रजापते इमं यम प्रस्तरम् व्याहृतीभिश्च ९
अथाज्यस्य जुहोति अग्न आयूंषि पवसे अग्ने पवस्व यस्त्वा हृदा कीरिणा इति चतस्रः धाता ददातु नो रयिमीशानः इत्यान्तादनुवाकस्य प्रत्यृचम् अव ते हेडः उदुत्तमम् इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयाऽसि उद्वयं तमसस्परि उदुत्यं चित्रं वैश्वानरो न ऊत्या पृष्टो दिवि सोमो धेनुम् इति दशहोत्राद्यैष्षड्भिः ब्राह्मण एकहोता इति दशभिः । स्विष्टकृत्प्रभृति सिद्धमापिण्डदानात् १०
दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य तेष्वन्नशेषैस्त्रीन् पिण्डान् ददाति ११
दशमेऽहनि वैवाहिकश्राद्धवत् भूमौ लेपमन्त्रत्रयान्तं कृत्वाऽथैनान् सङ्क्षालनेन त्रिरपसलैः परिषिञ्चति ऊर्जं वहन्तीः इति १२
अथ मध्यमपिण्डं पत्न्यै प्रयच्छति वीरं मे दत्त पितरः इति १३
तं पत्नी प्राश्नाति आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषो हसत् इति पुमांस एव मे पुत्रा जायेरम् इति ब्राह्मणम् १४
जयप्रभृति सिद्धमाधेनुवरप्रदानात् १५
यदि जीवपिता पिण्डं न दद्यात् पितृभ्यस्स्वधा इति मन्त्रान् सन्नमय्य प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य चतुष्पथे दर्भस्तम्बेषु बलिमुपहरति १६
नमस्त्रियै नमः पुंसे नमस्सवयसे नमः शुक्लाय कृष्णदन्ताय पापिनां पतये नमः १७
ये मे प्रजामुपलोपयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो नमो अस्तु बलिमेतेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे दध इति १८
सह देवमनुष्या अस्मिन् लोके पुरा बभूवुरथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्यास्तेषां ये तथा कर्माण्यारभन्ते सह देवैर्ब्रह्मणा चामुष्मिन् लोके भवन्त्यथैतन्मनुश्श्राद्धशब्दं कर्म प्रोवाच प्रजानिश्श्रेयसाय इति पञ्चम्यां श्राद्धेन बह्वयत्यो भवति । न चानपत्यः प्रमीयते । श्राद्धेन वार्षयो दिवमागच्छन् इति १९
विज्ञायते च प्रजामनुप्रजायसे । तदु ते मर्त्यामृतम् इति २०
तस्मिन्प्रजापतौ यत्नः कार्यः । अत्रोदाहरन्ति २१
परानपहरेद्यस्तु बालवृक्षान् छिनत्ति यः भक्षयन्दण्डिशिशुकान्गुरून्वा सर्वदा द्विषन् २२
परपुत्रांश्च यो द्वेष्टि क्रीडन् बद्धमृगादिभिः निर्दयस्सर्वभूतेषु पितृपूजां विलोपयन् २३
स वध्यो मृतपुत्रो वा भवेत्तेषां तु निष्कृतिः मौनी व्रती हविष्याशी हूयते नियतेन्द्रियः २४
जुह्वा घृतेन कूश्माण्डैर्गणानष्टौ घृतोदनैः जपन् वा पौरुषं सूक्तं हेमगोभूतिलान् ददत् २५
कृच्छ्रातिकृच्छ्रैः जपकृन्मुच्यते सोऽहसः क्षणात् इत्याह भगवान् बोधायनः २६
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने षष्ठोऽध्यायः