अथ पञ्चमप्रश्ने पञ्चमोऽध्यायः
अथातोऽर्कोद्वाहं व्याख्यास्यामः मूकान्धबधिरादीनां जडानां च तृतीयविवाहिनां च १
पूर्वपक्षे पुण्ये नक्षत्रे पूर्वाह्ने ब्रह्मसमूहे ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रैको बालोऽर्को भवति तस्योत्तरत उपलिप्य स्वयं स्नात्वाऽर्कं च स्नापयित्वा पादौ प्रक्षाल्याचम्यालङ्कृत्य तन्त्रेण नान्दीमुखं कृत्वा स्वस्तिसूक्तं वाचयित्वा यत्किञ्चिद्धिरण्यं गृहीत्वा आसत्येन इति जपित्वा ब्राह्मणेभ्यो दत्वाऽलङ्कृत्यार्कं स्पृष्ट्वाऽऽदित्यमुपतिष्ठते सूर्यो देवीम् इति पञ्चभिः २
अथ वस्त्रं माङ्गल्यसूत्रं चार्के बध्वा पुण्याहं स्वस्ति ऋद्धिम् इति वाचयेदादित्योत्र देवता ३
पूर्वोक्तविधिनाऽग्निमुखमुपसमाधाय सम्परिस्तीर्याज्यं संस्कृत्य स्रुक्स्रुवं सम्मृज्यादित्यं ध्यायन्नर्कं गृह्णाति हस्तः प्रयच्छत्वमृतम् इति ४
अथाग्निं प्रदक्षिणं करोति परि त्वाऽग्ने पुरं वयम् इति ५
अथार्कमूलं स्पृष्ट्वाऽऽदित्यभीक्षते अभीवृतं शकुनैर्विश्वरूपम् इति ६
अथ व्याहृतीर्हुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा जुहोति उद्वयं तमसस्परि उदुत्यं चित्रम् इति ७
अपरं चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति मनो ज्योतिः इति ८
अपरं चतुर्गृहीतं गृहीत्वा लाजमन्त्रेण द्विरावर्त्य जुहोति ९
अथ स्रुवेण व्याहृतीर्हुत्वा समाप्यादित्यं व्रतऋग्भ्यामुपतिष्ठते अदाभ्यो भुवनानि प्रचाकशत् त्रिरन्तरिक्षं सविता महित्वना इति द्वाभ्याम् १०
अथ गोक्षीरमर्कं स्पृष्टा आयुष्यसूक्तमुक्त्वा प्राश्याचम्य पुनरादित्यमुपतिष्ठते अचित्ती यच्चकृम इति ११
अथार्काधिदैवतमुद्वास्यार्कमुत्पाट्य व्याहृतीभिरग्नौ दग्ध्वा स्नात्वा यत्किञ्चिद्दत्वा शुद्धो भवति १२
सद्य एवं कदलीविवाहं कुर्यात् १३
कदलीं छित्वा त्रिरात्रमशुचिर्भवति १४
अथाप्युदाहरन्ति अर्कोद्वाहो जडादीनामुच्यते तु यवीयसः विवाहार्थं मुनिश्रेष्ठैः तमुत्पाट्य दहेत्तदा व्याहृतीभिस्तदा दत्वा यथाशक्ति हिरण्यकम् स्नात्वा सद्यश्शुचिर्भूयादुद्वाहे च तृतीयके तृतीया स्त्री म्रियेच्छीघ्रं तस्मादेवं चरेद्बुधः रम्भोद्वाहं तथा कुर्याच्छित्वा तत्रैव मानवः त्रिरात्रं सूतकं भूयादिति बोधायनोऽब्रवीत् १५
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने पञ्चमोऽध्यायः