अथ पञ्चमप्रश्ने चतुर्थोऽध्यायः
अथातो मृत्तिकास्नानविधिं व्याख्यास्यामः ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजको वा अश्वक्रान्ते सहस्रपरमा देवी इति भूमिं दूर्वाभिरभिमन्त्र्य उद्धृताऽसि इति नदीतटे लोष्टमादाय काण्डात्काण्डात्प्ररोहन्ती इति द्वाभ्यां दूर्वामादाय मृत्तिके हन मे पापम् इति दूर्वा लोष्टे प्रतिष्ठाप्य यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः स्वस्ति न इन्द्रो वृद्धश्रवाः त्रातारमिन्द्रम् आपान्तमन्युः परं मृत्यो अनु परेहि इति षड्भिः प्रतिमन्त्रं प्रदक्षिणं प्रतिदिशं लोष्टमुत्सृज्य गन्धद्वाराम् इति लोष्टमादाय उदुत्यं जातवेदसम् इति लोष्टमादित्यं दर्शयित्वा श्रीर्मे भजत्वलक्ष्मीर्मे नश्यतु इति शिरः प्रदक्षिणीकृत्य सहस्रशीर्षा इति शिर आलिप्य विष्णुमुखाः इति मुखम् ओजो ग्रीवाभिः इति ग्रीवां महाँ इन्द्रो वज्रबाहुः इति बाहू सोमानँस्वरणम् इति कक्षः शरीरं यज्ञशमलम् इति शरीरं नाभिर्मे चित्तम् इति नामिं आपान्तमन्युः इति कटिम् विष्णो रराटमासि इति पृष्ठम् वरुणस्य स्कम्भनमसि इति मेढ्रम् आनन्दनन्दौ इत्यण्डौ उरुवोरोजः इत्यूरू ऊरू अरत्नी इति जानुनी जङ्घाभ्याम् इति जङ्घयोः चरणं पवित्रम् इति चरणौ इदं विष्णुः त्रीणि पदा इति द्वाभ्यां पादौ सजोषा इन्द्र इति शेषं दूर्वासहितं लोष्टं शिरसि निधाय हिरण्यशृङ्गम् इति तीर्थं गत्वा सुमित्रा न आप ओषधयस्सन्तु इत्यात्मानमभिषिञ्चेत् । उदकाञ्जलिमादाय लोष्टदेशे निनीय दुर्मित्रास्तस्मै भूयासुः इति प्रथमं योऽस्मान् द्वेष्टि इति द्वितीयं यं च वयं द्विष्मः इति तृतीयम् । हिरण्यशृङ्गम् इति चतुर्थं आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानस्सुवर्जनः इत्यनुवाकेन च मार्जयित्वा नमोऽग्नयेऽप्सुमते इति नमस्कृत्य यदपां क्रूरम् इत्यद्भिः त्रिरावृत्य इमं मे गङ्गे इत्यभिमन्त्र्य ऋतं च सत्यं च इत्यघमर्षणसूक्तेनापोऽवगाह्य एष भूतस्य इति मार्जयित्वा आर्द्रं ज्वलति इति पीत्वा अकार्यकारी इति पुनरवगाह्य देवानृषीन् पितॄन् तर्पयित्वा येकेचास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः । ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् । इति वस्त्रं निष्पीड्य शुची वो हव्या इति वस्त्रं प्रोक्ष्य देवस्य त्वा इति वस्त्रमादाय अवधूतम् इत्यवधूय उदुत्यं चित्रम् इति वस्त्रमादित्यं दर्शयित्वा आवहन्ती वितन्वाना इति वासः परिधाय द्विराचम्योत्क्रामन्तु भूतप्रेतपिशाचाद्यास्सर्वे ते भूमिभारकाः । सर्वेषामविरोधेन ब्रह्मकर्म समारभे । इति दर्भासनं प्रतिष्ठाप्योप्य त्रिः प्राणानायम्याष्टोत्तरशतं गायत्रीं जपेत् २
ब्राह्मणः पूतो भवति ३
ब्रह्महत्यागोवधगुरुतल्पसुगपानसुवर्णस्तेयादिसर्वपापप्रणाशनमिति विज्ञायते ४
हित्वा तद्देहं जनार्दनं प्रपद्यत इत्याह भगवान् बोधायनः ५
इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने चतुर्थोऽध्यायः